Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 74
________________ अरिमर्दननृपस्य जिनदत्तनृपानुचिताऽऽदेशाननुपालनम् इति विमृश्य राज्ञा प्रधाना आदिष्टाः – “भो महत्तमा ! यूयं गत्वा राज्ञः पुरो ढौकनिकां मुक्त्वा यथाकथञ्चित् सन्धि कुरुध्वम् , अनेन बलवता राज्ञा सह विरोधो न कार्यः, यतः - अनुचितकर्मारम्भः, स्वजनविरोधो बलीयसा स्पर्द्धा । प्रमदाजनविश्वासो, मृत्योराणि चत्वारि ॥१८०॥ तथा भो प्रधानाः ! एते बहवो वयं तु स्तोकाः, मेलापकाभावात् ; बहुभिस्तु वैरं शास्त्रविरुद्धम् , यतः - बहवो न विरोद्धव्याः, समवायो हि दुर्जयः । स्फुरन्तमपि नागेन्द्र, भक्षयन्ति पिपीलिकाः ॥१८१॥" ततस्ते प्रधाना दूतत्वे गता मणि-सुवर्णादि ढौकयित्वा राजानं विज्ञपयन्ति – हे महाराज ! त्वं दण्डं गृहाण, ततः पश्चाद् व्रज, अस्माकं राज्ञा तवाऽऽज्ञा शिरसि शेषावद् धृताऽस्ति । इति प्रोक्ते जिनदत्तो भूपतिर्वदति – भो प्रधानाः ! नास्माकं ढौकनिकया साकं दण्डेन कार्यम् , किन्तु नगरमुख्यं जीवदेवश्रेष्ठिनं सकलत्रं बद्ध्वाऽर्पयत यदि जीवितुमिच्छाऽस्ति; अन्यथा युद्धाय प्रगुणीभवत, इति स्वरूपं यूयं भवत्स्वामिनं विज्ञपयत । ततस्तैः प्रधानः पश्चादागत्य ढौकनिकां पुरो मुक्त्वा तथा विज्ञप्ते, राजा ब्रूते – भो प्रधानाः ! श्रेष्ठी कथमर्प्यते ? यतो भूभुजां कोशो द्विधा - स्थावरो जङ्गमश्च, तत्र स्थावरो हेमादि, जङ्गमो महाजनः; ततो व्यवहारिणोऽमी शाश्वतमुख्यकोशसमानाः, यतः - पित्रा स्वपुत्रा इव पालनीयाः, प्रजा नरेन्द्रेण कृपापरेण । किञ्चित्क्षयः स्वर्णमयः सकोशः, प्रजामयस्त्वक्षय एव यस्मात् ॥१८२।। अतो भो प्रधानाः ! यूयं गत्वा राजान विज्ञपयत – राजन् ! अपरं यथारुचि सर्व याचस्व, परं श्रेष्ठिनं प्राणान्तेऽपि नास्मन्नाथोऽर्पयति, एवं सति यदुचितं तत् कुरु" । इत्यादि शिक्षयित्वा प्रधानाः पुनः प्रेषिताः । तै राजान्तिके गत्वा निजस्वामिप्रोक्तसर्ववृत्तान्ते विज्ञप्ते किञ्चित्सरोषो भूपतिः प्रधानानवगणय्य पुरः प्रयाण कृत्वा दुर्ग रुरोध, तदा सर्वा नगरप्रतोल्यो दत्ताः । समुद्रवेष्टितद्वीपोपमपरचक्रव्याप्त स्वपुरं दृष्ट्वा सर्वो लोको व्याकुलो जातः, विशेषतो जीवदेवश्रेष्ठी ज्ञातवृत्तान्तः स्तोकजलपूतरखत् टलवलायते ।। तस्मिन्नवसरे प्रधाना आहूय राज्ञा पृष्टाः - भो मन्त्रिणः ! नगरं तावद् वेष्टितम् , ततः कथयत सम्प्रति किं कर्तुमुचितम् ? तदा केनापि प्रोक्तम् , यथा -

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132