Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 60
________________ विमलमतीवक्तव्ये हापाकश्रेष्ठयुदाहरणम अस्य श्रेष्ठिनो गृहात् प्रियाद्वयमाकार्य यूयं कथयत 'एतयोर्द्वयोरेकः सत्यो भर्ता युवाभ्यामङ्गीक्रियताम्' इति । ____ अथ मन्त्रिप्रहितै राजपुरुषैपिाकस्य गृहं गत्वा राजादेशे प्रोक्ते ताभ्यां द्वाभ्यां स्त्रीभ्यां सर्वशृङ्गारं कृत्वा याप्ययानमारुह्य राजसभां गच्छन्तीभ्यां मार्गे मिथः प्रोक्तम् - " राजादेशे सति कः स्वीकरिष्यते ? यः सम्प्रति नवीनो विदेशागतोऽस्ति स एव स्वीयपतिः सम्भाव्यते, यतः कदर्यप्रकृतिरयम् , प्रकृतिश्च दुस्त्याज्या यदुक्तम् – 'या यस्य प्रकृतिः स्वभावजनिता दुःखेन सा त्यज्यते । ततोऽयं स्वपतिः कदर्यधुर्यः स्वकीये शिरस्याऽऽजन्मभग्नोऽस्त्रि, अनेनात्मीयमुदरं सदा ज्वालितम् , असौ च द्वितीयश्रेष्ठी निजोदरं निर्वापयति, तदेतयोर्मध्ये कोऽङ्गीकरणीयः ?" इति परस्परेणोक्ते विमृश्य वृद्धया भणितम् – 'यो दत्ते स देवता' अमुमेव न्यायमादृत्यायमुदार एव स्वीकार्यः, पुनस्तस्य पापिनः कृपणमुख्यस्य नामापि न ग्राह्यम् । ततो द्वितीययोक्तम् - इदमेव सुन्दरं प्रोक्तम् , ममापि रुचितम् । इत्थं मिथः साम्मत्ये कृते सभायां ते द्वे समेते । राजोचे - भोः सुन्दयौं ! यो द्वयोर्मध्ये सत्यः श्रेष्ठी स बाहौ ध्रियताम् , पुण्यं पापं च युवयोर्मस्तके, अत्रार्थे वयं निष्कलङ्काः किमपि न विद्मः । इति राज्ञोक्ते ताभ्यां एकभविनीभ्यां विषयलोलाभ्यां कृत्रिमश्रेष्ठी स्वीकृतः । ततः सत्यश्रेष्ठी राजादेशाद् गलहस्तितः । ततोऽयं ग्लानिं गतः निराधारो जातः काष्ठवदचेतनोऽभूत् । _____ अत्रान्तरे राजजनैरान्दोल्यमानं ताड्यमानं च तं दृष्ट्वा सदयहृदयो धूर्तहापाको दध्यौ – हहा! अस्य हृदयं स्फुटिष्यति, अहं हत्याऽपवादी भविष्यामि, मया तु स्ववाञ्छितं पूरितम् , कस्या अपि वर्ताया अवसानं न गृह्यते, अस्य सर्वस्वमस्यैवार्यते । इति ध्यात्वा कृत्रिमश्रेष्ठी विडम्बनाकरान्' जनान् निवार्य राजानमूचे- हे कृपालुभूपाल । यदि मयि छलं न स्यात् तदा धर्मार्थ युक्तं किञ्चिद् वदामि । ततो राजोचे- हे श्रेष्ठिन् ! भवतो महापराधस्यापि सम्प्रति दण्डं न करोमि, यथेच्छं वदेति । ततो धूतोंऽवदत् - देव ! अयमेव श्रेष्ठी सत्यः, अहं तु कूटः । इति प्रोक्ते राज्ञा च साश्चर्येण 'कथम् ?' इति पृष्टे तेन सर्वो मूलवृत्तान्तः कथितः । ततो धूर्तः सर्व श्रेष्ठिनोऽर्पयित्वा ब्रूते - दातव्यं भोक्तव्यं, सति विभवे सञ्चयो न कर्तव्यः । यदि सञ्चयं करिष्यसि, हापा ! पुनरागमिष्यामि ॥१२२॥ J-5

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132