Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 58
________________ विमलमतीवक्तव्ये हापाकश्रेष्ठयुदाहरणम ततः प्रिययोर्द्वयोः सुवर्णभूषणानि दुकूलानि बहूनि दत्तानि स्वयं परिहितानि च । ततो वाणिपुत्राः द्वारपालाद्याः कर्मकराश्च विदेशविक्रेतव्यसूक्ष्मचीवरपुट्टलिकाश्छोटयित्वा परिधापिताः । ततो गोधूम-तन्दुल-घतादि जनैरानाय्य पक्वान्न-खण्डखाद्यादि संस्कृत्य संस्कृत्य स्वयं भुङ्क्ते, सर्व कुटुम्बादि भोजयते च । ततो गृहसमीपे स श्रेष्ठी दानशालां मण्डयित्वा दीनानाथेभ्यो भोजनं यच्छति, साधमिकवात्सल्यं विधत्ते, सर्वचैत्यालयेषु धनव्ययं कुर्वाणोऽस्ति, भूरिभट्ट-बन्दिजनादीनां च वाञ्छितं पूरयन्नस्ति । दोलाखट्वारूढः सर्वकालं गीतगानं कारयति, भार्याद्वयेन च सारिपाशकबूते रमते । इत्थं तं विलसन्तं दृष्ट्वा जनो वक्ति - अहो ! असम्भाव्यं दृश्यताम् , श्रेष्ठिनोऽपि प्रकृतिपरावर्तों जात इति । तेन धूर्तेन सत्योऽयमर्थः कृतः, यथा धणु' संचई केई कृपण, विलसीजई छयल । रंगि तुरंगम जव चरई, हल वहिय मरई बइल्ल ॥११९॥ तथा - कदर्योपाजिता लक्ष्मी गो भाग्यवतां भवेत् । दन्ता दलन्ति कष्टेन, जिह्वा गिलति लीलया ॥१२०॥ इतश्च कियत्यपि गते काले स कृपणश्रेष्ठी विदेशादाययौ, सर्वक्रयाणकं दानमण्डपिकायामुत्तार्य स्वगृहं रात्रौ समागतो भणति — भो भो द्वारपालाः ! द्वारमुद्घाटयत । तैरुक्तम् - कस्त्वम् ? । सोऽब्रवीत् -- अहं हापाकश्रेष्ठिनामा गृहस्वामी। तैरुक्तम् - रे ! को हापाकः ?, एकोऽस्माकमग्रेऽपि श्रेष्ठि हापाकोऽस्ति, त्वं नवीनः कोऽपि धूर्तः । स दध्यौ - सम्प्रति नेते मां लक्षयन्ति, प्रातर्वार्ता । इति ध्यात्वा तत्र श्रेष्ठी स्थितोऽचिन्तयत् - ननु द्वितीयः कोऽसौ हापाक ? । इति मनसि खिद्यमानो महाा निशां बहिनिर्गम्य प्रातमध्ये प्रविशन् स द्वाः स्थैर्गलहस्तितः । तदा स कृपणश्रेष्ठी कथञ्चिन्मध्ये निरीक्षमाणो दोलाखट्वारूढं कृत्रिम हापाकश्रेष्ठिनं दृष्ट्वोदरे दाहे पतितेऽचिन्तयत् - अहो ! केनापि धूर्तेन मम गृहसर्वस्वं भक्षितम्, अहं प्रवेशमपि न लभे, धनिकोऽप्यहं चौरो जातः, कस्याग्रे स्वदुःखमिदं वच्मि ? परं 'दुर्बलस्य बलं राजा' इति ध्यात्वा पूगीफल-मदनफल-निम्ब-बिल्व-बदरीफलादि ढौकनिकां लात्वा राजसभां गत्वा तां पुरो मुक्त्वा प्रणामं कृत्वा हापाकः स्थितः । -- 1. धन सञ्चयन्ति केऽपि कृपणाः, विलसन्ति छेकाः । रङ्गेन तुरङ्गमा यवान् चरन्ति, हलं उद्ध्वा म्रियन्ते बलीवः ॥

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132