Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
ચૂંટ
जिनदत्तकथानकम्
तुल्ले वि उयरभरणे मूढ - अमूढाण पिच्छसु विवागं । गाण नरयदुक्खं, अन्नेसिं सासयं सुक्खं ॥ १३७॥”
"C
इति श्रुत्वा देशनान्ते राजा पृच्छति – प्रभो ! मत्पुत्र्या को वरो भावी ? ततो ज्ञानी कथयति - वामन एवायमिति । राजोचे भगवन् ! कथमनुचितोऽयं सम्बन्धो घटते ? केवल्या ह 'राजन् ! उचित एवायं योगोऽस्ति । त्वमेनं वामनमात्रत्वेन माऽवज्ञासी:, यतो महासत्पुरुषोऽयम्, वसन्तपुरवास्तव्य कोटीध्वजव्यवहारिजीवदेवश्रेष्ठिपुत्रो जिनदत्तनामाऽयम्, तथा विद्याबलवानयं वामनो यदि चिन्तयति तर्हि त्वां सराज्यं सराष्ट्रमुन्मूलयति, किन्त्वेष विद्या - विनोदमात्रं करोति " । इति ज्ञानिमुखान्निशम्य भूपः प्रमोदभरनिर्भरो जातः ।
-
-
ततः केवलिनं नत्वा स्वस्थानं गत्वा करौ योजयित्वा भूपतिर्वामनं प्रति जल्पति यथा - भो विद्यासिद्ध ! भो गुणवृद्ध ! भो जगत्प्रसिद्ध ! भो भाग्यसमृद्ध ! त्वं सर्व कौतुकं मुक्त्वाऽस्मदादिप्रीत्यर्थं स्वरूपं प्रकटीकुरु, मत्पुत्रीं च स्वीकुरु, विमलश्रेष्ठिपुत्रीरपि निजपत्नीत्वेऽङ्गीकुरु, मायारूपं च संहर तथाऽस्माकमुपरि प्रसादं कुरु । इति श्रुत्वाऽवसरं मत्वा निजं रूपं किञ्चित् कृष्णवर्णाच्छादितं कृत्वा राजादिप्रेरितः प्रथमं भार्यायान्तिकं स वामनो गतः ।
[ कृतस्वाभाविकस्वरूपस्य जिनदत्तस्य निजभार्यात्रयेण सह मेलापकः ]
-
८८
ततो राजा बभाषे - हे सुन्दर्यः ! सर्वे युष्मन्मनोरथाः सिद्धाः यदयं युष्मदीयो जिनदत्तो नाम पतिः समागतः, तदयं स्वस्वामी स्वीक्रियताम् । ततस्ता उत्फुल्ललोचनास्तमवलोक्य सप्रमोदा वदन्ति स्म वाक्यप्रामाण्यतः परं प्रसीद, निजं स्वाभाविकं रूपं प्रकटय, माऽस्मान् सत्त्वात् पातय, सत्त्वमध्ये सर्वमस्ति यतः - पूर्व श्रीविक्रमेण प्रहरचतुष्टयक्रमेण सर्वलक्ष्मी - गजाऽश्व-सत्त्वगमने ज्ञाते सत्त्वमेकं स्थापितम् । तद्वाक्यं यथा
" स्वामिन्! त्वं जिनदत्त एव, जनपरम्परा श्रुतकेवलि
"
――
जाउ लच्छि धणकणसहिय, अनई मयगल मयमत्त ।
तरल तुरंगम जाउ सवि, तुं म म जाइसि सत्त ! ॥१३८॥
ततो वयमपि सत्त्वं प्राणात्ययेऽपि न मोक्ष्यामः, तदद्यापि नाथ ! त्वं कियत् खेदयिष्यसि ? " । इति करौ योजयित्वा ताभिर्विज्ञप्ते वामनेन सुवर्णवर्णे स्मरतुल्ये निजे रूपेऽदभ्राश्रनिर्गत
1. तुल्येऽपि उदरभरणे मूढ अमूढानां पश्य विपाकम् । एकेषां नरकदुःखम्, अन्येषां शाश्वतं सुखम् ॥ 2. यातु लक्ष्मीः धनकणसहिता, अन्यच्च मद्गलाः मदमत्ताः, तरलाः तुरंगमा यान्तु सर्वे; त्वं मा मा याहि सत्त्व ! |

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132