Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 36
________________ जिनदत्तस्य श्रीमतीनामराजपुत्रीप्राहरिकत्वप्रतिपत्तिः ___ ततः सुमुहूर्ते द्वावपि पितापुत्रौ यानपात्रमारुह्य चलितौ 'बहुमन्दिराण्युल्लङ्घय सिंहलद्वीपं प्राप्तौ। तत्र राजा घनवाहनः। तस्य रूपेण लक्ष्मीरिख, विद्यया भारतीव, शीलेन सीतेव नवयौवना पुत्री श्रीमती नामास्ति। सा कर्मदोषेण सव्याधिर्जाता। तस्याः प्राहरिको यः कोऽपि रात्रौ तिष्ठति स म्रियते, तदभावे श्रीमतीपुत्री-पुरलोक-राज्य-देशविप्लवो जायते । ततो राजादेशात् कृतायाः पत्रिकायाः क्रमेण सर्वलोको दिन प्रति एकैको वारके तद्यामिको भवति । एवं कालो गच्छति । तदा जिनदत्तो वाहनादुत्तीर्य परकार्याणि मुक्त्वा जिनभवनं दृष्ट्वा पुष्पानयनाय मालिकगृहं गतः। तत्रैका वृद्धा मुक्तकण्ठं रोदिति । तेनोक्तम् -- मातः ! कथं रोदिषि ? निजं दुःख वद । तयोक्तम् -- जो न हु दुक्खं पत्तो, जो न हु दुक्खस्स निग्गहसमत्थो । जो न हु दुहिए दुहिओ, कह तस्स कहिज्जए दुक्खं ? ॥३७॥ स ऊचे - अहयं दुक्खं पत्तो, अहयं दुक्खस्स निग्गहसमत्थो । अहयं दुहिए दुहिओ, मह तेण कहिज्जए दुक्खं ॥३८॥ ततस्तया सखेदं स्वदुःखकारणमूचे -- हे वत्स ! श्रृणु, ममैक एव पुत्रो राजपुत्रीश्रीमतीयामिकत्वे स्थितोऽद्य मरिष्यति तेन रोदिमि, अद्य ममाभाग्याद् मम पुत्रवारको जातः, अन्धयष्टिन्यायेन स ममाधाररूपोऽभूत्, हतदैवेन सोऽपि न संसोढः, यदुक्तम् - व्याघ्रो नैव, गजो नैव, सिंहो नैव च नैव च । अजापुत्र बलिं दद्याद, देवो दुर्बलघातकः ॥३९॥ तथा दुपयं चउप्पयं बहुपयं व अपयं समिद्धमहणं वा । अणुवकए व कयंतो हरइ हयासो अपरितंतो ॥४०॥" 1. अत्रापि 'मन्दिर' शब्दो वेलाकूलार्थे ज्ञेयः ॥ 2. यो न खलु दुःखं प्राप्तः, यो न खलु दुःखस्य निग्रहसमर्थः, यो न खलु दु.खिते दुःखितः, कथं तस्य कथ्यते दुःखम् ॥ 3. अहं दुःखं प्राप्तः, अहं दुःखस्य निग्रहसमर्थः, अहं दुःखिते दुःखितः, मम तेन कथ्यते दुःखम् ॥ 4. द्विपदं चतुष्पदं बहुपदं वा अपदं समृद्धमधन वा अनुपकृत इव कृतान्तो हरति हताशः अपरितान्तः = अखिन्नः ॥ J-2

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132