Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 44
________________ श्रीमत्याः परिदेवनम् हा ! हत दैवेन ममाऽऽशातरून्मूलनं शीघ्रमेव कृतम् । यथा - - आसातरुयर' मउरिउ जाब फलेवा लग्ग । उन्मूलिउ विहिकुंजरिइं, है असंधि ( ? ) भग्ग ॥ ७६॥ अतः कर्मविपाकान्न कोऽपि छटति, यतः देव' आगलि न राय न राणउ, कर्म आगलि न को स-पराणउ । डुंबनउ जल वहिउं हरिचंदिई, भालडी मरण लाधु मुकुंदिइ ॥७७॥ जं जेण कथं कम्म अन्नभवे इहभवे वि सुहमसुहं । तं तेण पावियव्वं, निमित्तमित्तं परो होइ ॥ ७८ ॥ १७ तावद् दैवेन महादुःखसागरेऽहं क्षिप्ता, सम्प्रति किं करोमि ? तातस्य गृहे व्रजामि ? अथाप्रभुवं यामि ? अथात्मानमपि समुद्रे क्षिपामि तावत् पितृगृहगमनमनुचितम्, यतः पतिवर्जिता तत्र गता कथमहमभाग्या स्वकुटुम्बस्य मुखं दर्शयिष्यामि ? यतो यथा चन्द्रं विना शर्वरी, इन्द्रं विना स्वर्गभूमिः, सूर्य विना द्यौः, मेघं विना विद्यद, शाखां विना वृक्षम्, नाशां विना मुखं न शोभते, तथा पति विना स्त्रीति । अथाऽग्रतो गत्वा किं करोमि ? स्वजनाभीष्टाद्यभावात् । तथा समुद्रपात शस्त्रघातादिना स्वात्महत्या जिनैर्निषिद्धा । यदुक्तम् * रज्जुग्गह - विसभक्खण-जलजलणपवेस- तिन्ह छुहदुहओ । गिरिसिरपडणाओ मया, सुहभावा हुंति वंतरया ॥ ७९ ॥ — मरणे प्रायः शुभध्यानं न स्यात्, ततो दुर्गतिहेतुत्वात् कुमरणमिदं न घटते । तथा चास्य पापिनः सार्थः सर्वथा मोक्तव्य एव 1 1. आशा तरुवरो मुकुरितो यावत् फलितुं लग्नः [ तावद् ] उन्मूलितो विधिकुञ्जरेण हृदयसन्धौ भग्नः ॥ 2. दैवाग्रे न राजा न राणकः, कर्माग्रे न कः [ अपि ] स्व-परकीयः, चाण्डालस्य जलं ऊ हरिश्चन्द्रेण भल्लया मरणं लब्धं मुकुन्देन ॥ 3. यद् येन कृतं कर्म अन्यभवे इहभवेऽपि शुभमशुभं तत् तेन प्राप्तव्यं = भोक्तव्यम्, निमित्तमात्र परो भवति ॥ 4 रज्जुग्रह-विष भक्षण - जलज्वलनप्रवेश- तृष्णा क्षुधादुःखतों गिरिशिखरपतनाद् मृताः शुभभावाद् भवन्ति व्यन्तराः ॥ J-3

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132