________________
श्रीमत्याः परिदेवनम्
हा ! हत दैवेन ममाऽऽशातरून्मूलनं शीघ्रमेव कृतम् । यथा -
-
आसातरुयर' मउरिउ जाब फलेवा लग्ग । उन्मूलिउ विहिकुंजरिइं, है असंधि ( ? ) भग्ग ॥ ७६॥
अतः कर्मविपाकान्न कोऽपि छटति, यतः
देव' आगलि न राय न राणउ, कर्म आगलि न को स-पराणउ ।
डुंबनउ जल वहिउं हरिचंदिई, भालडी मरण लाधु मुकुंदिइ ॥७७॥
जं जेण कथं कम्म अन्नभवे इहभवे वि सुहमसुहं । तं तेण पावियव्वं, निमित्तमित्तं परो होइ ॥ ७८ ॥
१७
तावद् दैवेन महादुःखसागरेऽहं क्षिप्ता, सम्प्रति किं करोमि ? तातस्य गृहे व्रजामि ? अथाप्रभुवं यामि ? अथात्मानमपि समुद्रे क्षिपामि तावत् पितृगृहगमनमनुचितम्, यतः पतिवर्जिता तत्र गता कथमहमभाग्या स्वकुटुम्बस्य मुखं दर्शयिष्यामि ? यतो यथा चन्द्रं विना शर्वरी, इन्द्रं विना स्वर्गभूमिः, सूर्य विना द्यौः, मेघं विना विद्यद, शाखां विना वृक्षम्, नाशां विना मुखं न शोभते, तथा पति विना स्त्रीति । अथाऽग्रतो गत्वा किं करोमि ? स्वजनाभीष्टाद्यभावात् । तथा समुद्रपात शस्त्रघातादिना स्वात्महत्या जिनैर्निषिद्धा । यदुक्तम्
* रज्जुग्गह - विसभक्खण-जलजलणपवेस- तिन्ह छुहदुहओ । गिरिसिरपडणाओ मया, सुहभावा हुंति वंतरया ॥ ७९ ॥
—
मरणे प्रायः शुभध्यानं न स्यात्, ततो दुर्गतिहेतुत्वात् कुमरणमिदं न घटते । तथा चास्य पापिनः सार्थः सर्वथा मोक्तव्य एव 1
1. आशा तरुवरो मुकुरितो यावत् फलितुं लग्नः [ तावद् ] उन्मूलितो विधिकुञ्जरेण हृदयसन्धौ भग्नः ॥ 2. दैवाग्रे न राजा न राणकः, कर्माग्रे न कः [ अपि ] स्व-परकीयः, चाण्डालस्य जलं ऊ हरिश्चन्द्रेण भल्लया मरणं लब्धं मुकुन्देन ॥ 3. यद् येन कृतं कर्म अन्यभवे इहभवेऽपि शुभमशुभं तत् तेन प्राप्तव्यं = भोक्तव्यम्, निमित्तमात्र परो भवति ॥ 4 रज्जुग्रह-विष भक्षण - जलज्वलनप्रवेश- तृष्णा क्षुधादुःखतों गिरिशिखरपतनाद् मृताः शुभभावाद् भवन्ति व्यन्तराः ॥
J-3