________________
जिनदत्तकथानकम्
[औदत्तश्रेष्ठिसार्थपृथग्भूतायाश्चम्पानगर्यागताया: श्रीमत्या विमलमत्या सहावस्थानम् ]
इत्थं चिन्तयन्त्यां तस्यां प्रवहणं वायुवेगेन चलत् कस्मिन्नपि द्वीपे लग्नम् । तत्र पृथगू भूत्वा स्ववाहनान्विता श्रीमती स्थिता ।
ततः श्रेष्ठी स्वपुरं प्रति गच्छन्निति दध्यौ, यथा- " मम श्रीमती कान्ताऽपि न जाता, जिनदत्तः पुत्रोऽपि नाऽऽसीत् , ततो मम द्वयमपि गतम् । यदुक्तम् -
निदाघे दाघार्तस्तरलतरतृष्णातरलितः, सरः पूर्ण दृष्ट्वा त्वरितमुपयातः करिवरः । तथा पक्के मग्नस्तटनिकटवर्तिन्यपि यथा,
न नीरं नो तीरं द्वयमपि' गतं दैववशतः ॥८॥ तथा 'हस्तो दग्धः, पृथुकोऽपि गतः' इति सत्यापितम् , तथा ममेहलोक-परलोकयोरपि द्वयं गतम् । यदुक्तम् -
जनापवादं कुलशीललाञ्छनं धनापहारं निजबन्धुनाशनम् ।
इहैव विन्दन्ति हतात्मपौरुषा नराः परस्त्रीनिरता निरन्तरम् " ॥८१॥ इत्यादि चिन्तयन् दशपु गतः श्रेष्ठी ।
नपुंसकत्वं तिर्यक्त्वं दौर्भाग्यं च भवे भवे ।
भवेन्नराणां स्त्रीणां चान्यकान्तासक्तचेतसाम् ॥८२॥ - ततः श्रीमती चिन्तयति – किमहं करोमि ? पत्यौ लोकान्तरिते जीवन्ती किमहं करिष्यामि ? तस्मादिहैवानशनं गृहीत्वा परलोकं साधयामि । एवमनल्पान् विकल्पान् कल्पयन्त्यास्तस्याः . पूर्व स्वपतिना वार्तान्तरप्रोक्तं चम्पास्थस्वभगिनीस्वरूपं स्मृतिमायातम् । ततः साऽचिन्तयत् – चम्पापुरीस्थिताया निजपतिभार्याया विमलमत्याः समीपे गच्छामि, कदाचिद् दैवयोगेन तत्रस्थाया मम पतियोगोऽपि भवति । अहो ! असम्भाव्येऽपि वस्तुनि मनः कल्पनां करोति । यदुक्तम् -
- हीया ! मनोरह मा करउ जं कज्जह असमत्थ ।
सग्गि जि तरुवर मउरिया, तिहां कि वाही हत्थ ? ॥८३॥ ... 1. °मपि विनष्टं विधिवशात् ॥८०॥ प्रत्यन्तरे ॥ 2. सुभाषितत्वेनात्र मूले स्वीकृतः केवलं पु.प्रतावुपलभ्यमानः श्लोकोऽयं प्रक्षिप्त आभाति ॥ 3. हृदय ! मनोरथं मा कुरु यः कार्यस्य असमर्थः । स्वर्गे ये तरुवरा मुकरिताः तत्र किं वाह्यते हस्तः१॥ 4. तिहां पसारइ हत्थ ॥८३।। प्रत्यन्तरे ।।