________________
श्रीमती विमलमत्यो: सहावस्थानम् न चेत् तत्र पतिसङ्गमस्तदा सर्वधनमिदं धर्मे व्ययित्वा दीक्षा ग्रहीष्यामि ।" इति चिन्तयित्वा निजवाहनमारुह्य चम्पापुरीं गता।
तत्र प्रथमं देवालयं गता विधिना देवान् नमस्कृत्य प्रान्ते जिनदत्ताभिधानं गृहीत्वा पुनः प्रणामं चकार ।
इतश्च पूर्वमागतया देवभवनमध्यस्थया विमलमत्या स्वपतिनामोच्चारं श्रुत्वा हृष्टया पृष्टम्-भद्रे ! त्वया कस्याभिधानं गृहीतम् ? अथ तया पतितुल्यरूपलावण्यदेहोच्चत्वादिगुणानुमानेन तां स्वभगिनी सम्भाव्य तदने सर्वोऽपि निजपतिवृत्तान्तो जगदे । पुनः श्रीमत्या 'त्वं स्वसम्बन्धं वद' इति भाषिता विमलमती स्ववृत्तान्तं प्रोच्य ' यदर्थं त्वमिहागता सैवाह तव भगिनी' इति गदित्वा श्रीमती हृष्टां चकार ।
ततः सा विमलमती पितुर्वचनेन स्वगृहे तां नीत्वाऽऽगता । ततो द्वे अपि ते समदुःखे साध्वीसमीपे धर्म श्रृण्वन्त्यौ दीक्षार्थिन्त्यौ जाते। ततः पिता प्रोचे–'हे वत्से ! युवां द्वादश वर्षाणि प्रतीक्षेथाम् , कदापि युष्मत्पुण्ययोगेन पतिरायाति । यतः -
भूमीतलि' भमंतेहिं मिलीइ जु मरीइ नहीं ।
बारवरसछेहिं जिम दवदंती नल मिलिउ ॥८४॥' इति प्रोच्य ते द्वे अपि महाऽऽग्रहेण दीक्षां याचमाने अपि तातेन द्वादश वर्षाणि स्थापिते । तदनु सर्व शृगारं मुक्त्वा पतिवियोगदुःखातुरे सुखपराङ्मुखे तिष्ठतः ।
इतश्च मूलसम्बन्धः कथ्यते - [ उत्तीर्णसमुद्रस्य जिनदत्तस्य विद्याधरराजपुत्र्या विज्जाहरीनाम्न्या
सह पाणिग्रहणं विविधविद्याग्रहणं च ] यदा जिनदत्तः समुद्रमध्ये पातितस्तदा समुद्रदेवतया सत्पुरुषरत्नहत्याभयेन त्रिरुल्लालितः, तदा पूर्वपुण्यानुभावेनैकं फलकं स प्राप । अहो ! भाग्यवतां किं वाञ्छितं न स्यात् ? । यतः
तृष्यम्बु, क्षुधि भोजनं, पथि रथः, शय्या श्रमे, नौ जले, व्याधौ सत्परिचारकौषधभिषक्सम्पद्, विदेशे सुहृत् । छायोष्णे, शिशिरे शिखी, प्रतिभये त्राणं, तमिस्र प्रभा,
धर्मः संसरतां भवेद् बहुभवे चिन्तामणिर्देहिनाम् ॥८५॥ 1. भूमितले भ्रमभिर्मिल्यते, यतो म्रियते न हि, द्वादशवर्षान्ते दवदन्त्या नलो मिलितः ॥