Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 38
________________ श्रीमतीशयनगृहे जिनदत्तस्यात्मसङ्गोपनम् १९ ततोऽसौ राजद्वारे प्रविशन् गवाक्षस्थेन राज्ञा दृष्टः । ततः 'कोऽसौ ? क्व याति ? ' इति राज्ञा पृष्टे केनापि प्रोक्तम् - पुत्रीयामिकोऽद्यैष भावी । राज्ञोक्तम्- धिग् धिग् मम नगर क्षयकारिणीयं पुत्री यदर्थे प्रत्यहमीदृशानि नररत्नानि क्षयं यान्ति परं पुत्रीमोहात् तदपि संसोढम्, यतः तथा - 'अक्खाणsसणी, कम्माण मोहणी, तह वयाण बंभवयं । गुत्तीण य मणगुत्ती, चउरो दुक्खेण जिप्पंति ॥४७॥ अहो मोहपिशाचोऽयं, कथं भवचतुष्पथे । मनागपि छलं प्राप्य भविनश्छलयत्यलम् ॥४८॥ अथ कुमारीगृहमध्येऽयं गतः । ततो दोलाखट्वारूढया श्रीमत्या जिनदत्तं दृष्ट्रोत्थाय प्रतिपत्तिः कृता, चिन्तितं च- अहो अस्य कीदृशं रूपलावण्यसौभाग्यम्, अहो ! सत्त्वप्रकृतिः, अहो ! सुन्दराकारः, अहो ! गुणनिधित्वम् । पुनस्तया चिन्तितम् - अतिसिंहमहो ! धैर्यमतिसूर्यमहो ! महः । अतिस्मरमहो ! रूपं, नृरत्नस्यास्य दृश्यते ॥ ४९॥ नररत्नमिदं धन्यमधन्यायाः कृते मम । क्षयमेष्यति कल्पद्रुः, कपिकच्छूकृते यथा ।। ५० ।। अहमेकैव तातस्य, कुलकल्पद्रुकानने । विश्वोद्वेगकरी जज्ञे, विषवल्लीव जङ्गमा ॥ ५१ ॥ ततः पृष्टम् - कस्त्वम् ? कुतः समायातः ? तेनोक्तम् - वाणिज्यार्थं विदेशादायातोऽहम्, अद्य तव समीपे रक्षार्थं स्थास्यामि । श्रीमत्योक्तम् - अत्र मम पार्श्वे न स्थेयं त्वया यतो रात्रौ विरूपं भावि अद्य मम यत् किश्चिद् भवति तद् भवतु परं त्वया न स्थेयम् । इत्थं मिथःसंलापैर्यामिन्याः प्रथमप्रहरे गते दोलाखट्वारूढायाः श्रीमत्या ईषन्निद्रा समेता । - " अथ जिनदत्तेनोपायो विचिन्त्य रचितः यत्- - पाश्चात्यदिनोज्झितमेकं मृतकं गवाक्षमार्गेणानीय स्वशय्यायां तदाऽऽच्छाद्य मुक्तवान्, जाग्रदस्थाच्च, यतः स्वयं च खड्गमादाय दीपोपच्छायामा श्रयद् 1. अस्यां गाथायां सर्वत्र सप्तम्यर्थे षष्ठी ज्ञेया । अक्षेषु = इन्द्रियेषु अशनी - रसना, कर्मसु मोहनीयम् तथा व्रतेषु ब्रह्मव्रतम्, गुप्तिषु च मनोगुप्ति; [ एतानि ] चत्वारि दुःखेन जीयन्ते ॥

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132