________________
जिनदत्तकथानकम् [दशपुरवास्तव्यऔदत्तश्रेष्टिगृहे जिनदत्तस्य प्रतिपन्नपुत्रत्वेनावस्थानम]
ततो जिनदत्तो विदेशं गच्छन् कियद्भिर्दिवसः दशपुरनगरपरिसरे गतः । तत्र दशपुर नगरोद्यानवाटिकामध्येऽशोकतरुतले निषण्णः, खेदान्निद्रायितश्च । तद्भाग्येन शुष्काऽपि वाटिका पुनर्नवा जाता । तथा दृष्ट्वा कश्चिन्मालिकोऽशीतिकोटयधिपस्याप्यपुत्रस्य वाटिकाधनिकस्य औदत्तव्यवहारिणोग्रेऽवोचत् । श्रेष्ठी पुष्पितां वाटिकां श्रुत्वा तत्र गत्वा भ्रमन् वृक्षतले जिनदत्तं वीक्ष्य हृष्टो बभाषे-कीदृशस्त्वम् ? तेनोक्तम् – वैदेशिकोऽहम् । श्रेष्ठिना सभाग्यं तं विज्ञाय गृहमानीय बाढं गौरयित्वा भाषितः-वत्स ! त्वं विदेशं मा यासीः, वं मम धर्मपुत्रः सवश्वरश्च । ततस्तत्र महाऽऽग्रहेण स्थितस्य तस्य सुखेन कालो याति धर्मेण किं किं न वाञ्छितं स्यात् यतः -
आरोग्यं सौभाग्यं धनाढयता नायकत्वमानन्दः ।
कृतपुण्यस्य स्यादिह सदा जयो वाञ्छितावाप्तिः ॥३४॥ तथा
यद्यपि कृतसुकृतभरः प्रयाति गिरिकन्दरान्तरेषु नरः ।
करकलितदीपकलिका तथापि लक्ष्मीस्तमनुसरति ॥३५॥ तथा
"पुण्यहीण षण दीण, पामइ परिभव हासा ।
पुण्यई सुख अनंत, पुन्नि पूरी दस दिसा ॥३६॥ तस्य सर्वदा पृथक् पृथग् 'मन्दिरेषु चतुरशीतिप्रवहणानि वहन्ति, चतुरशीतिवणि क्पुत्राश्च तन्नियुक्ताः सन्तिः । [औदत्तश्रेष्ठिसहगतस्य जिनदत्तस्य सिंहलद्वीपराजपुत्र्या श्रीमन्या सह पाणिग्रहणम्]
एकदा सर्वयानपात्राण्येकत्र मन्दिरे यान्ति सन्ति । तदा पुत्राग्रे औदत्तेन प्रोक्तम्वत्स ! यदि कथयसि तदाऽहमेषां सार्थे चलामि, यथा द्रव्यनाशो न स्यात् , त्वं गृहे तिष्ठ । तेनोक्तम्-अहमपि समेष्यामि, त्वत्प्रसादाद् ममापि विदेशदर्शनेच्छा पूर्यताम् ।
1. बाटिकास्वामिनः । धनिक="धणी' इति भाषायाम् ॥ 2. पुण्यहीना बहवो दीनाः प्राप्नुवन्ति परिभवं हास्थम् । पुण्येन सुख अनन्तम्, पुण्येन पूरिता दश दिशाः ॥ 3. तस्य औदत्तव्यवहारिणः ॥ 4. अत्र 'मन्दिर' शब्दप्रयोगो बेलाकूलार्थे ज्ञेयः । मन्दिर 'बंदर बंदिर' इति भाषायाम् ॥ 5. अत्रापि मन्दिर' शब्दो वेलाकूलार्थे ज्ञेयः ॥