Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 10
________________ ईशावास्योपनिषत् । यत्सत्तारूपेण वर्तते न येन ज्ञातुमहं तत्सूक्ष्मत्वं केनोपमेयम् । अत एवो. च्यते, 'अणोरणीयान् ' इति व्यापकत्वेन च 'महतो महीयान् ' इत्यपि । अतस्तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥ व्यापकत्वेन व्याप्यप्रसङ्गाद्भेदावाप्तिः स्यादत आह तदेजति तन्नजति तद्दूरे तदन्तिके ॥ तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५॥ यदेजति चलति तत्तदेव तस्यापृथक्सिद्धत्वात् । तन्नेजति यन्नजति स्थिरतरं तदपि तदेव । तद्दूरे यदूरे वर्तते तदपि तदेव । तदु तदेवान्तिके यदन्तिके वर्तते तदपि तदेव । अन्तर्यामित्वेनान्यत्स्यात् । अस्य सर्वस्योक्तस्यान्तर्यामित्वेनापि तदेव । बहिर्व्यापकत्वेन भिन्नं स्यात् । तदु तदेवास्य सर्वस्य बाह्यतो बाह्यभागेऽपि । तस्मात्सर्वं खल्विदं ब्रह्मैवास्तीति सत्यम् ॥५॥ यस्मादेवं तस्मात् यस्तु सर्वाणि भूतान्यात्मन्येवानु पश्यति । सर्वभूतेषु चाऽऽत्मानं ततो न विचिकित्सति ॥ ६ ॥ यस्तु पुमानधिकारी सर्वाणि ब्रह्मादीनि भूतान्यात्मन्येवानुपश्यति । तेषु च सर्वभूतेष्वात्मानमनुपश्यति। ततः स यथार्थदर्शी न विचिकित्सति न विचिकित्सा संशयं प्राप्नोति । स क आत्मा कथं च तस्मिन्सर्वभूतदर्शनं सर्वभूतेषु चाऽऽत्मनः । आत्मत्वेन प्रतीयमानोऽप्पयं देहो नाऽऽत्मा भवति वस्तुतो भूतपश्चकात्मकत्वेन जडत्वाद्दश्यत्वाञ्च । तथा योऽस्यान्तःप्रज्ञानवान्द्रष्टा श्रोता मन्ता तत्त्वात्मकलिङ्गरूपः सोऽपि नाऽऽत्मा मुख्यत्वेन तत्त्वानांवृत्तिरूपत्वाद्विलक्षणधर्मसाक्षित्वाच्च। तथा नाऽऽत्माऽज्ञानं कारणशरीरमपि स्वप्रकृतितमोगुणकार्य रूपत्वात् । तथा प्रज्ञानरूपं महाकारणदेहमपि नाऽऽत्मा तदाश्रयस्वरूपत्वात् । देहचतुष्टयातीतत्वेन स्वभावादवस्थाचतुष्टयाद्यतीतः। एवं सकार्यगुणनिरासेन यच्छेपं शुद्धप्रकृतिरूपं गुणसाम्यभूतं ज्ञप्तिमात्र स्वरूपं तदपि नाऽऽत्मा भवति स्वगतभेदरूपत्वात् । यत्तस्याधिष्ठानं निरुपाधि शुद्धं बुद्धं निराकारं निर्विकारं सर्वगतं परिपूर्ण सन्मानं शेषं तदेव वेदाचार्यात्मप्रत्ययेनाऽऽत्मरूप तत्त्वतः। तस्मिन्नात्मनि सत्तारूपे सर्वाणि भूतानि योऽनुपश्यति नाऽऽधे.

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102