Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
कठोपनिषत् |
तथाऽरसमविद्यमानरसम् । नित्यं सर्वदाऽगन्धवच्च न गन्धवद्गन्धवत् । शब्दादयो भूतानां गुणा यद्भौतिकं तस्यैव स्युर्यद्धृतकारणं परं परातीतमन्तरतरं तस्य कथं स्युः । पुनः कथम् । अव्ययं व्ययरहितं यथावदेव वर्तमानम् | अनाद्यविद्यमान आदिः कारणान्तरं यस्य तदनादिसिद्धम् । अनन्तमविद्यमानोऽन्तः परिसमाप्तिर्यस्य तत् । महतः परं महान्सर्वजगतः कारणं परमात्मा महामायाश्रयस्तस्मादपि परमेतावदिति तस्य महत्त्वं केनोच्येत । अत एवोक्तपूर्वम् ' महतो महीयान् इति । ध्रुवमचञ्चलं सर्वत्र तदेव कुत्र चलितव्यं सर्वमाकाश एव चलति स आकाशस्तस्मिन्नेकदेशी विवर्तः । यदेवं विशिष्टं तमात्मानं पूर्णचैतन्यरूपं निचाय्याऽऽत्मन्यात्मत्वेनैव पूजयित्वा नित्यं निष्ठाय दशां प्राप्य मृत्युमुखान्मृत्योर्मरणस्य मुखात्प्रमुच्यते प्रमुक्तो भवति ॥ १५ ॥ स्वोपदिष्टं स्तौति
७७
य इदं परमं गुह्यं श्रावयेद्ब्रह्मसंसदि । प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते तदानन्त्याय कल्पत इति ॥ १७ ॥
,
नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम् । उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ १६ ॥ नाचिकेतं नचिकेतसा त्वया लब्धमतो नचिकेतसस्तवेदं नाचिकेतं मृत्युप्रोक्तं मृत्युना मया प्रोक्तं सनातनं चिरन्तनं नास्मिन्नेव काले निर्वृतमुपाख्यानमुक्त्वा पठित्वा श्रुत्वा च मेधावी सुमेधास्तत्पठनश्रवणपु. येन ब्रह्मलोके ब्रह्मणश्वतुराननस्य लोके सत्याख्ये महीयते पूज्यो भवति ।। १६ ।।
किंच
यः पुमानिदं परमं गुह्यमनधिकारिभिरश्रव्यं नाचिकेतमुपाख्यानं ब्रह्मसंसदि ब्राह्मणसभायां श्रावयेद्वाह्मणान् । श्राद्धकाले वा प्रयतः सन्भुञ्जानाञ्श्रावयेत् । तस्य तच्छ्रावणं श्रोतृपुण्यस्य श्राद्धस्य चानन्त

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102