Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 100
________________ कठोपनिषत् । कदा तदुपलब्धिरित्यत्राहि-.:. : . . . . . . . .. ....... :: . ... यदा सर्व प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः। ... अथ मोऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ १५॥ येऽस्प साधकस्य हृदि श्रिता हृदयमाश्रित्य वर्तमानास्ते सर्वे कामाः “सांसारिका इहामुत्र च स्थिता यदा यस्मिन्काले प्रमुच्यन्ते स्वयमेव प्रमुक्ता भवन्ति स निर्वासनो भवति । अथ तदा समयोऽमृतो ब्रह्म रूपो भवति । पूर्वमपि ब्रह्मैवाऽऽसीन्मध्य उपाधियोगादब्रह्ममानी तद. पगमे पुनः पूर्ववद्ब्रह्मैव भवति । उक्तं चान्यत्र 'ब्रह्मैव सन्ब्रह्माप्येति' इति । अन्तेऽत्रास्मिन्नेव लोके ब्रह्म पूर्ण समश्नुते संप्राप्नोति । न तस्य .प्राणी उकामन्यत्रैव समवनीयन्ते ॥ १५ ॥ .11 .: : : ...१५, यदा सर्वे अभियन्ते. हृदयस्येह ग्रन्थयः । ... .' अथ मोऽमृतो भवत्येतावदनुशासनम् ॥ १६ ॥: . . . . इहास्मिल्लोके यदाऽस्य सर्वे हृदयस्य संबन्धिनो ग्रन्थयो नानाविध.. शास्त्रश्रवणपठनाभ्यामुत्पन्ना. अनेकसंशयरूपा यद्वा केवलाज्ञानयोगेन . विपरीतमावनारूपाश्चेदहं ब्रह्म तदा कथं में जन्ममृत्यू सुखदुःखे च परिच्छिन्नत्वं चेत्यादिरूपाः प्रभिद्यन्ते स्वयमेव प्रभेदं प्रामुवन्ति । अथं तदा मोऽमृतो भवति। 'अब ब्रह्म समश्नुते ' इत्येतत्पूर्वस्मादाकृष्यते । एतावदेतत्परिमाणमेवानुशासनम् ॥ १६ ॥ अथोत्क्रमणकाले केन नाडीमार्गेण गतोऽयममृतत्वमेति तदाह शतं चैका हृदयस्य नाड्यस्तासां च मूर्धानमभिनिःसृतका । तयोर्ध्वमापन्नमृतत्वमेति विष्वगन्या उत्क्रमणे भवन्ति ॥ १७ ॥ शतं च शतसंख्याका यद्वा शतमनन्तं मवतीति शतमनेका एका च हृदयस्य मांसपिण्ड रूपस्य संबन्धिनो नाड्यः सन्ति । तासां च मध्य एका नाडी मूर्धानं शिरोऽभिनिःसृताऽमिलक्ष्योवं निर्गताऽस्त्या ब्रह्म रन्ध्राद्रता । तया नाड्या तन्नाडीमार्गेणोद्धमायन्नागच्छन्बह्मरन्ध्रेण: निर्गतोऽमृतत्वं मोक्षमेति । तस्या नाड्या अन्या विष्वग्विश्वतः स्वञ्चन्तिः ।

Loading...

Page Navigation
1 ... 98 99 100 101 102