Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
कठोपनिषत् । अमृतत्वं च गच्छति प्रारब्धकर्मभोगान्ते देहपातादृवं जलप्रास्तसैन्धकखिल्यवदपुनरावृत्त्याऽविनाशिसद्वस्तुत्वं गच्छति ॥९॥ यस्मात्तदात्मविज्ञानमात्मन्येवास्ति तस्मात्
न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनीषाऽभिक्लप्तो य एतद्विदुरमृ
तास्ते भवन्ति ॥ १० ॥ अस्याऽऽत्मनः शुद्धं रूपं स्वरूपं संदृशे सम्यक्प्रकारेण द्रष्टुमवस्थितं प्रति न तिष्ठति न गोचरो भवति । अतो न कश्चन कोऽप्येनमात्मानं चक्षुषा पश्यति । चक्षुषा बाह्यं रूपवदेव दृश्यते कथं सोऽन्तरङ्गो ग्राह्यः स्यात् । तर्हि केन ज्ञायते, हृदा हृदयेन हृदयमिति प्रज्ञानस्य नामधेयं तेन हुदा विगतसंचितदोषत्वाद्रजस्तमोभावरहितेन विशुद्धेनाऽऽत्मप्रज्ञानेन मनीषा मनस ईषा गतिर्मनीषा सद्गुरूपदिष्टवाक्यश्रवणाद्यदन्तमननं व्यतिरेकसाधनं तद्रपा तया मनीषयाऽभिकृप्त आत्मन्यात्मनैव विज्ञातुमभिशक्तो नान्यथा । ये पुमांसोऽधिकारिण एतदात्मस्वरूपं यथोक्तं विदुर्जानते साक्षात्कुर्वते तेऽमृता अपतनित्यपूर्णब्रह्मस्वरूपा भवन्ति ॥१०॥ अथ तेषां सा गतिरित्यत्राऽऽह
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश्च न विचेष्टेत तामाहुः परमां गतिम् ॥ ११ ॥ यदा यस्मिन्काले मनसा कर्तृरूपेण संकल्पविकल्पयोगादिन्द्रियाणां स्वव्यापारप्रवर्तनहेतुभूतेन सह पञ्च ज्ञानानि श्रोत्रादीनि ज्ञानकरणा. न्यवतिष्ठन्ते स्वधर्मपरित्यागात्पज्ञानान्तर्गतत्वेन निश्चलानि भवन्ति । बुद्धिश्च तत्प्रज्ञानमपि न विचेष्टेत ज्ञानज्ञातृत्वपरित्यागेन सुलीनैव भवेत्तदा तां परमामुत्कृष्टां यस्या न पराऽन्यैवंभूतां तां गतिं प्राप्ति. माहुः ॥११॥
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।
अप्रमत्तस्तदा भाति योगो हि प्रभवाप्ययौ ॥ १२॥ तां स्थिरामिन्द्रियधारणां योगं योगः परबौक्यरूपो ज्ञानयोग इति मन्यन्ते । एवं संप्राप्तयोगस्तदाऽप्रमत्तः प्रमादरहितो गलिताहंमधित्वा

Page Navigation
1 ... 96 97 98 99 100 101 102