Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 96
________________ कठोपनिषत् । तिस्त्वपुनरावृत्त्या पूर्णब्रह्मप्राप्तिविषयैव सा खत्र चिरास्कल्पान्ने ब्रह्मणा सह भविता । किं तावदवावस्थानेन । तस्मादत्र संभूय साधनसिध्या दशां गत्वा परे ब्रह्मण्यात्यन्तिकीं गमिष्यामीति कदाचित्पनरावर्तने मतिः कदाचिद्वासेऽपि तेनोक्तदृष्टान्तोऽत्र संभवति । यद्वा , आतपे. प्रकाशाधिक्यं छायायां मुखाधिक्यम् । कदाचिदस्य विवेकलक्षणप्रका शाधिक्येन शीघ्रमेव पदमापकयोगिकुले संभवने मतिः संभवति । कदाचित्संसारे जन्ममृत्युजराव्याध्यादिदुःखदर्शनानुस्मरणेन छायेक सुखकरं ब्रह्मलोकवासे मतिः । तस्मादयं छायातपयोरिव ब्रह्मलोके. भवति ॥६॥ छायामावान्नित्यत्वेन प्रकाशोपलब्धये साधनमाह इंन्द्रियाणां पृथरभावमुदयास्तमयौ च यत् । ... पृथगुत्पद्यमानानां स्मृत्वा धीरो न शोचति ॥ ७॥ . पृथगुत्पद्यमानानां पृथगुत्पद्यन्ते पृथगुत्पद्यमानानि तेषां परस्परविलक्षणरूपाणामिन्द्रियाणां ज्ञानकर्मरूपामां पृथग्भाचे विवेकेनाऽऽत्मनो विलक्षणत्वं तानि गुणकृतानि गुणाः प्राकृता नाऽऽस्मन इति तेषामुदयास्तमयौ चोदयं चास्तमयं च तौ च यद्यस्मात्तस्य लयोनवसाक्षित्वेनाssत्मनो नित्यस्यासङ्गत्वं स्मृत्वा विज्ञाय धीरो विवेकी न शोचति न विषयमोगवासनया शोकं प्राप्नोति । कथमत्र विवेकः । अन्तःकरणं सत्त्वात्मकं राजसध्यानाधारेपा तामसं शब्दं शृणोति तामसेन काचा कर्मकरणेन वक्त्यात्मा तत्सर्वसाक्षी तेनासङ्ग एव सदा । एवं मनःप्रभू तिष्वपि विज्ञेयम् । उक्तं च 'गुणा गुणेषु वर्तन्त इति मत्वा न सजते' • इति ॥ ७॥ :: इन्द्रियाणां पृथग्भावं तल्लयोद्भबसाक्षित्वं च विज्ञाय कथमात्मा विज्ञेय इत्यत्राऽऽह: . इन्द्रियेश्यः परं मनो मनसः सत्त्वमुत्तमम् । . - सत्वादधि महानात्मा महतोऽव्यक्तमेव च ॥ ८॥... इन्द्रियेभ्यस्त्रिविधेभ्यो मनः परमन्तरॉ संकल्पविकल्पयोंगेन तेषां प्रवर्तननिवर्तनहेतुत्वात् । तस्माद्वाह्यविषयान्बहिस्त्यक्त्वा तन्नि प्रज्ञा ततः प्रत्यावर्त्य तावदिन्द्रियनिष्ठं कुर्यात् । ततस्तत्मवर्तननिवर्तनहेतु

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102