Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
९८
अर्थप्रकाशसमेतासवृत्तिचतुष्टयं मनोऽन्तरङ्गमन्तराकाशावस्थितं विज्ञाय देहासङ्गत्वेन यो हृत्पुण्डरीकान्तराकाशस्तन्निष्ठो भवेत् । तदृष्ट्या स्थूलाभावेन जागराभावाद्वाह्यप्रपश्चाभावः सर्वत्र व्योमैव विभाति । तत्राध्यासान्मनःसंकल्पयोगेन स्वप्नदृश्य प्रपञ्चवन्नानाविधं भानं विभाति तदपि बाह्यप्रपञ्चवदे. वातो निरस्यम् । कथं, तस्मान्मनसः सत्त्वं विशुद्धप्रज्ञाप्रकाशवदतः प्रज्ञानरूपमेव तदुत्तमम् । अन्तरङ्गं सव्योम दृश्यमानप्रपञ्चसाक्षित्वात् । इति विज्ञाय तदवलम्बपरित्यागेन तस्मिन्व्योन्नि प्रज्ञानावलम्बेनैवाऽऽत्मन्य. वतिष्ठेत । ततस्तत्र यथा भावावलम्बस्तथैवाभावावलम्बः । त्रिपुटीयोगेनावभासमानत्वात् । तेन नाऽऽत्मविज्ञानमिति ज्ञात्वाऽग्रे किं कार्य तदुच्यते । सत्त्वात्तस्मादधिसत्त्वेऽधिसत्त्वस्य प्रज्ञानरूपस्याऽऽश्रय आत्मा प्रत्यगात्मा साक्षिभूतो महाश्रेष्ठः । आश्रयत्वादन्तरङ्गश्च । इति विज्ञायाभावनिष्ठज्ञानं तदवलम्बपरित्यागेनाऽऽत्मनिष्ठ मेव विदधीत । ततो ज्ञानज्ञेयसापेक्षितमात्मनि ज्ञातृत्वं, निरस्ते तवये किं ज्ञातृत्वेनात. स्तदपि निरास्यम् । कथं, तस्मान्महतो ज्ञातृरूपादात्मनोऽव्यक्तं न व्यक्तमव्यक्तं ज्ञातृत्वादिभावरहितत्वात् । यनिर्विकल्पमात्मप्रज्ञानं तदवलम्बेनैवावतिष्ठेत ।। ८॥ तत आत्मनोऽपरोक्षविज्ञानाय किं कार्यं तदुच्यते
अव्यक्तात्परः पुरुषो व्यापकोऽलिङ्ग एव च ।
यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ९ ॥ अव्यक्तादुक्तात्पुरुषः सर्वास पूर्षु पुरि शयान इव विद्यमानो निर्विकारो निर्विकल्पः शुद्धः सन्मावरूपः परोऽन्तरङ्गस्तदधिष्ठानत्वात् । इति विज्ञाय सदाचार्यदत्तप्रज्ञानयुक्त्या तज्ज्ञानावलम्बं परित्यज्याज्ञानान्यथाज्ञानरहितत्वेन तस्मिन्सन्मात्रे तन्मयत्वेनावतिष्ठेत । सैव समाधिः परब्रह्मात्मविज्ञानम् । कथं स पुरुषः । व्यापको व्याप्नोति सत्तारूपत्वेन सर्वान्तर्बहिरवस्थितत्वाद्यापकः। आलिङ्ग एव च । न विद्यमानं लिडं. यस्य सः । यत्र न ज्ञानं नाज्ञानमानन्दो निरानन्दोऽपि न पूर्णशून्येऽपि नानाकारं साकारमपि न प्रकाशरूपमप्रकाशरूपमपि तस्मान्नैकमपि लिङ्गं तत्र निश्चेतुं शक्यमतोऽलिङ्ग इत्युच्यते । एवं यद्यद्वहिर्भूतं तत्तन्निरस्य यद्यदन्तरङ्गं तत्र तत्र निष्ठां विधायाऽऽत्मन्यात्मत्वेनायमात्मानमप. रोक्षतयाऽनुभूय जन्तुः प्राणी मुच्यते विविधबन्धनात्प्रमुक्तो भवति ।

Page Navigation
1 ... 95 96 97 98 99 100 101 102