Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 99
________________ अर्थप्रकाशसमेतानिर्विकारो निर्विकल्पश्च भाति । मुख्यं योगलक्षणमाह-'योगो हि प्रभवाप्ययो । प्रभवश्चाप्ययश्च तो। आत्मनः शुद्धस्य प्रभव उद्भवोऽ. परोक्षत्वेनानुभवः । अप्ययस्तदितरस्य प्रज्ञानादेः सर्वस्य व्यतिरेकवृत्त्या बिलयः । स एव योगो नान्यः ॥ १२॥ सर्वविलयसाधनव्यतिरेकवृत्तिमकुर्वाणेन नैव वाचा न तपसा प्राप्तु शक्यो न चक्षुषा ॥ १३॥ नैव वाचा वेदशास्त्रपठनतदर्थकथनरूपया तच्छ्रवणेनाप्यात्मा प्राप्तुं शक्यः । तथा न मनसा सगुणेन संकल्परूपेण प्राप्तुं शक्यः । न चक्षुषा प्राप्तुं शक्यः । तान्यात्मेतरपदार्थज्ञानसाधमान्येव नान्तरङ्गस्य सूक्ष्मतरस्याऽऽस्मन: प्रकाशकानि भवन्ति ॥ १३॥ किंच. अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते। - अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ १४ ॥ तत्परमात्मतत्त्वमन्यत्राऽऽत्मनोऽन्यस्मिन्स्थानेऽस्ति नाऽऽत्मा मवेति । आत्मा संसारी सुखदुःखवानज्ञानेनाऽऽवृतस्तत्परमं तत्वं सर्वोत्कृष्टमसं: सारि नित्यानन्दनिमग्नं सर्वकर्त सर्वज्ञं कथं भवेदतस्तद्भिन्नमेवास्त्यात्मपरमात्मनार्भेद एव तात्त्विकोऽस्तीति ब्रुवतो ब्रुवता मूढेन कथं तत्परम तत्त्वमुपलभ्यत उपलभ्येत । तस्य तदुपलब्धिर्नास्त्येव । यथा पूर्वदेशस्थवस्तुसंप्राप्तिर्न पश्चिमदेशिनः कदाऽपि । तस्य विज्ञानमात्मन्येवास्त्युक्तं च 'ब्रह्मविदाप्नोति पर, तदेषाऽभ्युक्ता सत्यं ज्ञानमनन्तं ब्रह्म, यो वेद निहितं गुहायां परमे ब्योमन्सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विप. श्चिता' इति । एवं सति तबुद्धिं विहायान्यत्र परत्वेन यन्न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा तस्कथं चक्षुषाऽवेक्षमाणेनोपलभ्येत । तथा बृहदारण्यकेऽपि तात्त्विकभेदवादिनं निन्दति 'अथ पोऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः । ब्रह्म तं परादाद्योऽन्यत्राऽऽत्मनो ब्रह्म वेद' इति । अस्तीत्येव तदात्मन्येवास्ति तदुपलब्धिरुक्तप्रकारेण, गुहायामेवास्तीति बुवतोपलब्धस्योप समीप आत्मन्येव लब्धस्य सदाचार्यप्रसादेन संप्राप्तस्य तत्त्वभावस्तस्वस्य मावोऽस्तित्त्वं प्रसीदति सच्चिदानन्दमयं परमं तत्त्वं तस्य नित्यमात्मत्वेनापरोक्षतया विमाति न वसन्दुःखमूलं संसारः सत्ववेन॥१४॥

Loading...

Page Navigation
1 ... 97 98 99 100 101 102