Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
कठोपनिषत् ।
९५ न मनुष्याणामेव तद्भयं देवादीनामपि यथाधिकारेण कर्मनियमोऽ. स्त्येव तदकरणे तेषामपि तद्भयमित्याह
भयादस्यामिस्तपति भयात्तपति सूर्यः।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः॥४॥ अस्यास्मान्मायोपाधियोगात्परमात्मत्वं प्राप्तादात्मनो भयादग्निस्तपति तन्नियुक्तः स्वप्रयोजनसिद्धये तापं करोति तथा मयात्तपति सूर्यः । भयादिन्द्रश्च स्वप्रयोजने विषये धावति सावधानत्वेन वर्तते । भयाद्वायुश्च धावति पञ्चमोऽग्न्यादीनां पञ्चानां पूरणो मृत्युर्धावति स्वकार्ये ॥४॥
यस्मादिमे देवाः संसारकार्ये नियुक्तास्तेन संसारनिष्ठा उक्तं च 'ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतन्' इति कार्यपरास्तस्माद्भयं तेषां ज्ञानिनस्तु तद्भयं नास्ति तस्मादल्पमपि तस्तौति... इह चेदशकरोढुं प्राक्शरीरस्य विस्रसः ।
ततः स्वर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ५॥ __ इहास्मिल्लोके चेत्याक्पुरस्ताच्छरीस्य स्थूलस्य विस्रसो विषेसनाद्वि. पातात्पूर्वजन्मान्तरसुकृतसामय्या श्रीसद्गुरुप्रसादेनापरोक्षतया शुद्धात्म. तत्त्वं बोद्धुं ज्ञातुमशकच्छक्नुयात् । ततः स पुमाळशरीरत्यागादूध स्वर्गेषु लाकेषु ब्रह्मभुवनान्तेषु बहुसुकृतसाध्येषु शरीरत्वाय तत्तल्लोकार्हदिव्यशरीरवत्त्वं प्राप्तुं कल्पते समर्थो भवति । शरीरत्वं प्राप्य तत्रत्यः पूज्यो भवति । ननु ब्रह्मविदां गत्यभावः श्रूयते 'न तस्य प्राणा उत्क्रा: मन्त्यत्रैव समवनीयन्ते ब्रह्मैव सन्ब्रह्माप्येति' इत्येवं सति कथं कर्मिण इव तस्य लोकान्तरपातिरुच्यते । सत्यम् । योऽभ्यासवान्मनोजयी निवृत्तभावनाद्वयोऽन्ते तदनुसंधानेनैव देहं त्यजति न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्तेऽत्रैव परब्रह्मप्राप्तिरस्ति । यस्य तु सद्गुरुप्रसादेनापरीक्षत्वेनाऽऽत्मसाक्षात्कारो जातोऽग्रे प्रारब्धप्रतिकूलत्वेन न साधनं संभूतं तेन च न मनोजयस्तस्मानान्तकाले तद्धारणा तस्य योगभ्रष्टस्य सा गतिरुक्ताऽस्ति न संसिद्धस्येति विज्ञेयम् । एवं योगाचलितचित्तस्य गतिर्गीतास्वपि श्रूयते
'अर्जुन उवाच। . . अयतिः श्रद्धयोपेतो योगाचलितमानसः।।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ।। ...... :

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102