Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 93
________________ अर्थप्रकाशसमेतापरं ब्रह्म तदा तत्कार्यभूतोऽयमपि ब्रह्मरूप एवास्ति न भिन्नः। उच्यते च 'सवं खल्विदं ब्रह्म, पुरुष एवेदं सर्वम् ' इति ॥१॥ पुनः किंविधं तत् तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥२॥ सर्वे लोकास्तस्मिन्नेवोक्तविधे परे ब्रह्मणि श्रिताः । तदाश्रितत्वेनैव सर्वमस्ति । अप्रथक्सिस्याधिष्ठानमात्रत्वात् । अतस्तदु कश्चन कोऽपि नात्येति नातिक्रम्य तिष्ठति सर्वात्मभूतं तदेवैकमस्ति । तस्मादेतद्वै नामरूपाद्याकारेण प्रविमक्तं जगत्तदेव परं ब्रह्म । स्थित्युद्भवलयकारणत्वात् ॥ २॥ स्थितिकाले तस्मिन्नवस्थितं जगत्कथं वर्तत इत्यत्राऽऽह यदिदं किंच जगत्सर्वं प्राण एजति निःसृतम् । महद्भयं वजमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ ३ ॥ यदिदं किंच स्थूलं च सर्वं जगत्माणे प्राणमृते स्वकारणे तस्मिन्निःसृतं तस्मादुत्पन्नं तत्र स्थितं सदेजति कम्पते तद्भयेनैव स्वस्वव्यपारे वर्तते । तेन कथं तत् । महद्भयं महाभयरूपं तज्जनकत्वात् । कथं वज्रमुद्यन्तम्द्यच्छत्युत्क्षिपति उद्यच्छंस्तमुद्यन्तमुद्यच्छन्तं मारणे वज्रमुद्यम्य तिष्ठन्तं पुरुषं दृष्ट्वा यथा बिभ्यति तथा भयहेतुत्वेन महद्भयमित्युच्यते । ननु तन्निर्विकारं निर्विकल्पं सर्वान्तरतममात्मरूपमेव सर्वस्यैवं सति कथं तदुक्तदृष्टान्तेन भयजनकं स्यात् । नाऽऽत्मनो भयमात्मनः । सत्यं तदेव मायोपाधित्वेन सर्वजगत्कारणभूतमीशनशीलम् । कथं वेदचतुष्टयं निर्माय तत्र कर्माकर्मविकर्मविमागं विधाय तत्फलान्यपि निमितवान् । तत्र कर्मणः फलं भोगमोक्षरूपम् । अकर्मविकर्मणोर्दुःखं दण्डरूपं च । कदा तद्भयनिवृत्तिरस्य स्यादिति चेत् । यावजन्ममरणे वर्तेते तावन्न संसारनिवृत्तिः कुतो भयस्य । कदा जन्ममरणनिवृत्तिर्भवतीत्यपेक्षाया. माह-ये निष्कामा एतदात्मरूपं विशुद्धं संनिहितं विदुराचार्यप्रसादादुहायामन्तः सर्वोपाधिनिरासेनापरोक्षत्वेन विजानन्ति तेऽमृता अविनाशिनस्तदेकरूपत्वेन मवन्ति जननमरणाभावात् । न तदा तद्भयं तेषाम् । द्वितीयाद्वै मयं भवति तदभावे कुतो मयम् ॥३॥ .. :

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102