Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 92
________________ कठोपनिषत् | ९३ यस्मात्तमेव भान्तमनुभाति तस्मात्तस्यैव भासा प्रकाशेन सर्वमिदं विभाति यथा किरणप्रकाशेनैव मृगजलस्य भानं तदप्रकाशे कुतस्तस्य ॥ १७ ॥ इति श्रीमदादिगुरुदत्तात्रेयदिगम्बरानुचरविरचिते ज्ञानकाण्डे कठवल्युपनिषदर्थप्रकाशे पञ्चमी वल्ली व्याख्याताः ॥ पुनः स एवान्वयव्यतिरेक विचारः साकल्येनोच्यतेऊर्ध्वमूलमवाक्शाख एषोऽश्वत्थः सनातनः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ॥ १ ॥ ऊर्ध्वमूलमूर्ध्वमागे मूलमस्य स ऊर्ध्वमूल मूर्ध्वमूलः । किं तन्मूलम् । सगुणस्यास्य संसारतरोर्मूलं मायागुणसाम्यमेव तस्मात्तदेव मूलं कारणत्वादूर्ध्वमागेऽवस्थितं विज्ञेयम् । अवाक्छाखोऽवागधोभागे शाखा यस्य सः। कास्ताः । ननु मूलात्स्तम्मोत्पत्तिस्ततः शाखास्तथाऽत्र कः स्तम्भः । गुणसाम्यरूपान्मूलात्प्रथमजः सकलगुणविस्तारजनकः शुद्धसत्त्वगुणः । तेन सकार्य: स स्तम्भरूप इति विजानीयात् । किं तत्कार्यम् । महामाया शरीरं तत्रावस्था सर्वज्ञमुभयाभिमानी परमात्मैतत्रयं शुद्धसत्त्वस्य कार्यं प्रणवस्यार्धमात्रया वाच्यं स्तम्भस्थाने विजानीयात् । ततः प्रसृताः शाखा: का इति चेत् । सत्त्वं रजस्तम इति गुणत्रयं सकार्य शाखास्थाने विज्ञेयम् । तत्र रजसो विराटशरीरं विश्वोत्पादनमवस्थोमयाभिमानी ब्रह्मेत्येतत्रयमेका शाखा । हिरण्यगर्भशरीरं स्थितिरवस्था - मयाभिमान्यात्मा विष्णुरित्येतत्रयं सात्त्विकं कार्यं द्वितीया शाखा | माया शरीरं प्रलयावस्थोभयाभिमान्यात्मा रुद्र इत्येतत्रयं तमः कार्यं तृतीया । एवंविधस्यास्य तरोः कानि पर्णानि । छन्दांसि यस्य पर्णानि ' इत्युक्तत्वाद्वेदा एव साङ्गाः पर्णस्थाने विज्ञेयाः । यथा पर्णैवृक्ष आच्छन्नो वर्तते परिज्ञायते शोभते च तथाऽयं वेदैः कर्मोपासनोपपाद कैरेवाऽऽच्छाद्यते परिज्ञायते शोभते च । एवंविध एष कार्यकारणान्वयेनैकरूपः संसाररूपोऽश्वत्थो न श्वः परेद्यवि तिष्ठत्यश्वत्थोऽनित्यत्वात् । सनातनश्चोत्पत्तिस्थितिलययोगेन चिरंतनः । तदेव शुक्रं यदस्य मूलं गुणसाम्यमित्युक्तं तत्प्रज्ञानरूपत्वात्स्वप्रकाशत्वेन शुक्रम्। तद्ब्रह्म तत्प्रज्ञानं ब्रह्मैव तदपृथसिद्धत्वात्तद्रूपमेव । अत एवोच्यते " प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म' इति । तदेवामृतमुच्यतेऽविनाशित्वात् । यदा मूलं "

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102