Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
कठोपनिषत् । कूलभावापगमेन बन्धनाद्विमुक्तः पुनः स्वपदेऽवस्थितो न शोचति । तथाऽयमप्यधिकारी जन्मान्तरकृतेशाराधनयोगेन सद्गुरुणा प्रबोधितो लब्धप्रज्ञानेन देहात्मभावं त्यक्त्वा तदेकादशद्वारं पुरमिवाऽऽत्मनोऽसङ्गं दृश्यं जडं तेन विजातीयमात्मा तु प्रज्ञानवांस्तत्साक्षी नित्यं हृत्पु. ण्डरीकान्तराकाशनिष्ठः क्रीडार्थं जागरामवलम्ब्य नेत्रस्थाने निष्ठाय बाह्यप्रपञ्चमनुभवामि तवत्यांश्च विषयान्भुने तथा स्वप्ने कण्ठस्थानमवलम्ब्य तदवस्थाजनितं प्रपञ्चं पश्यामि सुषुप्तिसमये च विज्ञा. नेन स्वगतेन करणनिष्ठं विज्ञानमादाय पुरीतति स्वपिमि तस्मादहं सावस्थप्रपश्वस्य तस्य साक्षी तरीय इति विज्ञाय तेन श्रान्तः श्रमनिवृत्तये तद्भावावलम्बं त्यक्त्वा तस्मिन्निजवेश्मन्यन्तोम्नि तत्सापेक्षित. द्रष्टुत्वपरित्यागाज्ज्ञानाज्ञानपरिलोपेनाऽऽत्मनि निर्विकल्पत्वेन चिदानन्दमयत्वेन स्वपदे तिष्ठति तदा स्ववैभवविज्ञानेन सांसारिकसङ्गविमुक्तो न शोचति । अन्यस्तु शोचत्येव । एतद्वै तत्पुरादि सर्वम् ॥१॥ किंच
हसः शुचिषद्दसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसहतसद्व्योमसदब्जा गोजा ऋतजा
अद्विजा ऋतं बृहत् ॥ २ ॥ स पूर्ण आत्मा हंसो हन्ति गच्छति सर्वदा हंस आदित्यः सञ्शुचि. षच्छुचौ धुलोके सीदति तिष्ठति शुचिषत् । वसुर्वसति सर्वत्र वसुर्वायुः सन्नन्तरिक्षसदन्तरिक्ष सीदति होता जुहोति ददाति देवेभ्यो हविर्यथाभागं होताऽग्निः सन्वेदिषत् , वेद्यां संस्कृतभूम्यां स्थण्डिले सीदति । उक्तं चर्षिणा ' यो होताऽऽसीत्प्रथमं देवजुष्टः ' इति । अतिथिरतति गच्छति सततमतिथिः सन्दुरोणसद्दुरोणेषु गृहेषु गृहिणां शुचीनां सीदति । नृपन्नृषु मनुष्येषु गुरुरूपेण सीदति । वरसद्वरं सर्वस्माद्विद्याजातात्परविद्यारूपं तस्मिन्सीदति । ऋतसदृतं वेदाद्यपरविद्यारूपं तस्मिन्सीदति । व्योमसद्वयोम्न्याकाशे विविधे सीदति । अप्सु जायतेऽब्जाः। गवि पृथिव्यां जायते गोजाः । ऋते दिवि जायत ऋतजाः । अद्रिषु पर्वतेषु जायतेऽद्रिजाः । इति हंसाद्येतहतं सत्यं बृहब्रह्म ॥२॥

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102