Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
૯
अर्थप्रकाशसमेता
यस्माद्यद्विज्ञानाच्छोकनिवृत्तिर्मोक्षश्च तस्मात् — ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ।
मध्ये वामनमासीनं विश्वे देवा उपासते || ३ ||
यः प्राणमूर्ध्वमुन्नयत्युद्गमयति । अपानं प्रत्यक्पश्चाद्स्यति क्षिपति । तं प्राणापानयोर्मध्ये वामनं ह्रस्वं चतुरङ्गुलप्रमिताङ्गुष्ठमात्रमासीनमुपविशन्तं विश्वे सर्वे देवा उपासते परमानन्दावाप्तये तन्निष्ठत्वेन सेवन्ते || ३ ||
I
तद्विज्ञानप्राप्त्यनन्तरं पुरस्य तत्स्वामिनश्च का गतिरित्यत्राऽऽहअस्य विस्रंसमानस्य शरीरस्थस्य देहिनः । देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४ ॥ अस्योक्तविधात्मोपासनापरस्य शरीरस्थस्य देहिनो विस्नंसमानस्य प्रारब्धकर्मक्षयेण संप्राप्तजरया विशेषेण संसमानस्य ततो देहाद्विमुच्य मानस्य तत्पातादूर्ध्वं किमत्र परिशिष्यते न किंचित् । तस्य शरीरं भौतिकं निजकारणं भूतपञ्चकमध्येति । तथाऽध्यात्मकरणसंघोऽपि निजेऽधिदैवतरूपे संक्रामति । उक्तं च ' वातं प्राणश्चक्षुरादित्यं मनश्रद्धं दिशः श्रोत्रं पृथिवी शरीरमाकाशमात्मौषधीलोमानि वनस्पतीकेशा अप्सु लोहितं च रेतश्च निधीयते ' इति । अत्राऽऽकाशशब्देन परं ब्रह्मैव विज्ञेयमाकाशशरीरं ब्रह्म खं ब्रह्मेति । एवं मुण्डकेऽपि ' गताः कला : पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु । कर्माणि विज्ञानमयश्व आत्मा परेऽव्यये सर्व एकी भवन्ति ' इति । तस्मान्नात्र किंचिद वशिष्यते तस्य । यथा घटोपाधिभङ्गे तच्छकलानां मृदेव गतिराका - शस्तु तत्संबन्धी सर्वगते व्योम्नि तिष्ठति तथाऽस्य गतिः । एतद्वै तत्रावशिष्टं पूर्णं तदुच्यमानमात्मरूपं विज्ञेयं न भेदः ॥ ४ ॥ यस्मादात्मन उत्क्रमणेन देहस्य मरणं तस्मात् -
न प्राणेन नापानेन मृत्योर्जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेता उपाश्रितौ ॥ ५ ॥
कश्वनायं देहो न प्राणेन मृत्योर्मृत्युसकाशाज्जीवति । तथा नापानेन मृत्योर्जीवति । इतरेण तु यस्तदितर: प्रज्ञानवान्स्व प्रज्ञाप्रकाशेनेदं व्यापारे प्रवर्तयति निवर्तयति च । तथाऽप्यसङ्गः प्रदीपवत्तेनैव जीवन्ति देहाः । यस्मिन्नात्मन्येतौ प्राणापाना उपाश्रितौ यमुपाश्रित्य वर्तेते |

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102