Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 88
________________ कठोपनिषत् । विज्ञानयोगेन तस्मिन्परे ब्रह्मणि तन्मयत्वेन गते । यद्वा कर्मयोगेणोवं गते कुतः प्राणापानयोरवस्थितिस्तदभावे च शरीरस्यापि ॥ ५॥ पुनस्तदेव विस्तरज्ञानायोच्यते हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६॥ हन्तशब्दो वाक्यारम्मार्थः । इदमिदानीमेव वक्ष्यमाणं गुह्यं गोप्यतमं सनातनमनादिसिद्धं ब्रह्म ते तुभ्यं प्रवक्ष्यामि । हे गौतम नचिकेतो यथा च येन प्रकारेण मरणं प्राप्य प्रत्यगात्मा पूर्णा भवति तं प्रकारं ते प्रवक्ष्यामि ॥६॥ योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७ ॥ अन्ये वक्ष्यमाणेभ्य इतरे देहिनो यथा यादृशं कर्म तथा योनि शरीरत्वाय शरीराणि सन्त्येषां शरीराः शरीरिणस्तेषां भावः शरीरत्वं तस्मै शरीरत्वं प्राप्तुं प्रपद्यन्ते प्रगच्छन्ति । अन्ये तेभ्य इतरे यथाश्रुतं तथा स्थाणुं स्थिरतरं यतो न निवर्तन्ते । एवंभूतं ब्रह्मानुसंयन्त्यनुक्रमेण समीचा प्रकारेण गच्छन्ति ॥७॥ य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्भिमाणः ॥८॥ यः पूर्वोक्त एषोऽन्तःशरीरे वर्तमानः पुरुषः सुप्तेषु सर्वकरणेषु सत्सु जागति प्रज्ञानवान्स्वप्रकाशस्तेनासुप्तः कामं कामं स्वप्नावस्थायोगेन काम्यते काम्यते कामः कामस्तं निर्मिमाणो निमिमीते निर्मिमाणः सञ्जागर्ति । न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजते स हि कर्ता ॥८॥ कथं स शुद्धस्वरूपेण तदाह तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥९॥ तदेव शुक्रं यच्छुक शुद्धं स्वप्रकाशं प्रज्ञानं येनावस्थात्रयसाक्षित्वं तुरीयेऽपि प्रकाशो यस्य निर्विकल्पत्वेन स्वरूपे शुद्ध वर्तमानं तत्प्रकाश

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102