Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 84
________________ कठोपनिषत् । त्वेनान्तर्नीतं तस्मिन्दहरे निरवलम्बत्वेन निश्चलं न तिष्ठेत्तेन प्रथममडठमात्रपुरुषचिन्तनं तत्र कृत्वा तेन मनो वशं विधाय पश्चात्तदवलम्बपरित्यागेन निरवलम्बनिष्ठत्वं प्राप्योक्तप्रकारेणाऽऽत्मा वेदितव्यः ॥ १२॥ यस्यान्तर्मुखस्यापि तस्मिन्व्योम्न्यन्धकार एव विभाति न प्रकाशस्तेन किं कायं तदुच्यते अगुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ।। ईशानो भूतभव्यस्य स एवाय स उ श्वः । एतदै तत्॥१३॥ अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः स्वप्रकाशोऽस्ति । ईशानो भूतभव्यस्य स एवाद्यास्मिन्वर्तमानकालेऽस्ति स उ स एव श्वः परेद्य. व्युत्तरकाले भविष्यति न तस्य कालत्रयेऽप्यभावः । एतद्वै तत् । एवमन्तोतिर्विचिन्तनेनान्धकारनिवृत्त्या प्रकाशमुपलभ्य तदवलम्बपरित्यागेन यथापूर्वमात्मानमनुभवेत् ॥ १३ ॥ एवमात्मानं विजानतोऽविजानतश्च का गतिरित्यत्राऽऽह यथोदकं दुर्गे वृष्टं प्रवतेषु विधावति । एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति ॥ १४ ॥ यथोदकं दुर्गे दुर्गम उच्चैः प्रदेशे वृष्टं पर्जन्येन सत्यवतेषु प्रवणेषु निम्नेषु प्रदेशेषु प्रपथेष्विति पाठान्तरम् । प्रपथेषु प्रशस्तेषु पथिषु विधावति विशेषेण धावति । एवं तथाऽशुद्धचित्तो मन्द आत्मानं पूर्णब्रह्मणः पृथग्मिन्नं धर्माश्चाऽऽचर्यमाणानात्मनो लोकांश्च प्राप्यान्पृ. थक्पश्यन्विजानन्केवलभेदबुद्धिर्ये पूर्वमाचरितास्तानेव धर्मान्वासनामयत्वेनावस्थितानन्वनुलक्ष्य विधावति । कर्मफलभोगार्थमुच्चकैः स्थानेs. वस्थितस्तत्पुण्ये भोगेन क्षीणे ततो निसृत्यान्यकर्मफलभोगाथं प्रवतमिमं लोकें हीनतरं वा विशति । उक्तं चान्यत्र'नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति' इति॥१४॥ यथोदकं शुद्धे शुद्धमासिक्तं ताहगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५॥ यथोदकं शुद्धं निर्मलमुदके शुद्ध आसिक्तमा समन्तासिक्तं सत्ताहगेव तादृशमेव तपमेव भवति हे गौतम गोतमस्य गोवापत्य नचिकेत एवं तथा तस्य विजानतो गुरूपदिष्टप्रकारं विशेषेण निःसंदेह

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102