Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
अर्थप्रकाशसमेतारेण यथावदेव निराकारं सर्वाकारस्य निराकारत्वाद्विवर्तरूपत्वेन । एवं सति योऽनधिकारी बहिर्मुख इहास्मिन्नात्मस्वरूपे नानेव नानक नास्त्येव तस्मान्नानेव नानावत्पश्यति तात्विकभेदबुद्धया स मृत्योरनन्तरं मृत्यु. माप्नोति मृत्वोत्पद्य यथाकर्म जीवित्वाऽन्ते म्रियते पुनरुत्पद्यत इति संसारचक्रारूढः परिभ्राम्यत्येव ॥ १० ॥ एवं सर्वत्र वर्तमानस्याऽऽत्मनो ज्ञानं कथं भवतीत्यत्राऽऽह
मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन ।
मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११ ॥ यतस्तज्ज्ञानमुक्तप्रकारेण हृदय गुहायामेवास्ति तस्मादिदमुक्तविधमा स्मरूपं मनसैवाऽऽप्तव्यं प्राप्तव्यम् । ननु मनः सत्त्वरजआत्मकं तेन कथं निर्गुणं तज्ज्ञातुं शक्यं श्रूयते च यतो वाचो निवर्तन्ते' अप्राप्य मनसा सह ' 'यं मनो न वेद' 'अमतो मन्ता' इति । सत्यं, यत्स्वगतं प्रज्ञानं तदेव गुणत्रययोगेणान्तःकरणादितत्त्वरूपेण जातमत एवोच्यते 'सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति' इति । यद्गुणप्रधानं तद्रूपं न तेनाऽऽत्मा ज्ञातुं शक्यः । सर्वगुणविलयेन यनिर्विकल्पं स्वरूपे तदाकारत्वेन वर्तमानं तेनाऽऽत्माऽऽत्मत्वेन ज्ञातव्यः । इहास्मिन्विशुद्रेऽ. नुभूयमान आत्मनि किंचन किंचिदपि नाना नानाकारेण भासमानं नास्ति । विवर्तरूपस्यास्याधिष्ठानदृष्ट्या भानं कुतः । एवं सति य इह नानेव पश्यति स मृत्योर्मृत्युं गच्छतीत्येतदुक्तार्थम् ॥ ११ ॥ अथान्तर्मुखप्रवृत्तिनिमित्तं तस्य सोपाधिकरूपमुच्यते
अङ्गुष्ठमात्रः पुरुषो मध्यमात्मनि तिष्ठति ।
ईशानो भूतभव्यस्य न ततो विजुगुप्सत एतद्वै तत् ॥१२॥ अङ्गुष्ठश्चतुरङ्गुलः स प्रमाणमस्याङ्गुष्ठमात्रोऽङ्गुष्ठप्रमितः । पुरुष इदं शरीरं यः पिपर्ति पालयति स्वप्रज्ञाप्रकाशेन पूरयति च स तेन पुरुषः । आत्मनि देहे मध्यं हृत्पुण्डरीकं तिष्ठत्यधितिष्ठति । हृत्पुण्डरीकस्यान्तराऽवकाशोऽमुठमात्र एवास्ति तन्निष्ठत्वात्सोऽपि तावानेवास्ति । स शुद्धेनाऽऽत्मरूपेण भूतभव्यस्येशानोऽतो ज्ञातव्यः । विज्ञाते तस्मिस्ततो न विजुगुप्सते न किंचिन्निन्दति सर्वस्य तद्रूपत्वदर्शनात् । एतद्वा आत्मरूपं तत्पुरुषरूपम् । यस्य मनो विषय सङ्गात्मत्यावर्त्य शरीरासङ्क

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102