Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
कठोपनिषत् । या प्राणेन संभवत्यदितिर्दवतामयी। गुहां प्रविश्य तिष्ठति या भूतेभि
य॑जायत एतदै तत् ॥ ७ ॥ येश्वरनिष्ठा चित्प्रकृतिः प्राणेन प्राणशब्दवाच्यपञ्चविंशतितत्त्वसमूहेन स्वनिष्ठेन संभवति प्रतिसर्गमादित्यादिदेवतारूपेण व्यक्तत्वेन संभवति । अतोऽदितिरनवच्छिन्ना देवानां माता सा देवतामयी विष्ण्वादिदेवतारूपा । गुहां देवशरीरनिष्ठां प्रविश्य तिष्ठति ततो या भूतेभिभूतैः सर्वप्राणिरूपैर्व्यजायत विविधा जाता । एतद्वा एतदेवाऽऽ. स्मरूपं तत्परमात्मनि चित्प्रकृतिरूपेण वर्तमानम् ॥ ७ ॥
अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः । दिवे दिव ईड्यो जागृवद्भि
हविष्मद्भिर्मनुष्येभिरग्निः । एतदै तत्॥८॥ जातवेदा अग्निररण्योः पूर्वोत्तररूपयोनिहितः। तत्र दृष्टान्तः-गर्मिणीभिः स्त्रीभिः सुभृतः शोभनप्रकारेण धृतो गर्भ इव निहितः। सोऽरण्योरभिमन्थनेनोत्पन्नोऽनिर्जागृवद्भिर्जागरितैः प्रबुद्धैर्विद्वद्भिहविष्मद्भिः स्तत्पूजनाय हवींषि सन्त्येषां तैर्गृहीतहविभिर्मनुष्यभिर्मनुष्यैर्दिवे दिवे दिने दिन ईड्यः स्तुत्यो भवतीडित्वा हूयते । एतद्वा एतदेवाऽऽत्मरूपं तदग्निरूपम् ॥ ८॥
यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति ।
तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन । एतद्वै तत् ॥९॥ यतश्च वायोः सूर्य उदेत्युदयं गच्छति । यत्र चास्तमदर्शनं गच्छति । प्रत्यहं हि वायुयोगेनोदेत्यस्तं गच्छति च । तं वायु सर्वदेवा अर्पिताः प्रापितास्तदाधारेणैव वर्तन्ते तदु वायुरूपं कश्चन नात्येति नातिकम्य गच्छति । एतद्वा आत्मरूपं तद्वायुरूपम् ॥ ९॥
यदेवेह तदमुत्र यदमुत्र तदन्विह ।
मृत्योः स मृत्युमामोति य इह नानेव पश्यति ॥ १० ॥ यदेवाऽऽत्मरूपं पूर्णमिहास्मिल्लोकेऽस्ति तदमुत्रामुष्मिन्स्वर्गे लोकेऽ. स्ति। यदमुत्रास्ति तदिहान्वनुगतमस्ति। तस्मात्तत्सर्वाकारमपि निजाका.

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102