SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ कठोपनिषत् । या प्राणेन संभवत्यदितिर्दवतामयी। गुहां प्रविश्य तिष्ठति या भूतेभि य॑जायत एतदै तत् ॥ ७ ॥ येश्वरनिष्ठा चित्प्रकृतिः प्राणेन प्राणशब्दवाच्यपञ्चविंशतितत्त्वसमूहेन स्वनिष्ठेन संभवति प्रतिसर्गमादित्यादिदेवतारूपेण व्यक्तत्वेन संभवति । अतोऽदितिरनवच्छिन्ना देवानां माता सा देवतामयी विष्ण्वादिदेवतारूपा । गुहां देवशरीरनिष्ठां प्रविश्य तिष्ठति ततो या भूतेभिभूतैः सर्वप्राणिरूपैर्व्यजायत विविधा जाता । एतद्वा एतदेवाऽऽ. स्मरूपं तत्परमात्मनि चित्प्रकृतिरूपेण वर्तमानम् ॥ ७ ॥ अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः । दिवे दिव ईड्यो जागृवद्भि हविष्मद्भिर्मनुष्येभिरग्निः । एतदै तत्॥८॥ जातवेदा अग्निररण्योः पूर्वोत्तररूपयोनिहितः। तत्र दृष्टान्तः-गर्मिणीभिः स्त्रीभिः सुभृतः शोभनप्रकारेण धृतो गर्भ इव निहितः। सोऽरण्योरभिमन्थनेनोत्पन्नोऽनिर्जागृवद्भिर्जागरितैः प्रबुद्धैर्विद्वद्भिहविष्मद्भिः स्तत्पूजनाय हवींषि सन्त्येषां तैर्गृहीतहविभिर्मनुष्यभिर्मनुष्यैर्दिवे दिवे दिने दिन ईड्यः स्तुत्यो भवतीडित्वा हूयते । एतद्वा एतदेवाऽऽत्मरूपं तदग्निरूपम् ॥ ८॥ यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति । तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन । एतद्वै तत् ॥९॥ यतश्च वायोः सूर्य उदेत्युदयं गच्छति । यत्र चास्तमदर्शनं गच्छति । प्रत्यहं हि वायुयोगेनोदेत्यस्तं गच्छति च । तं वायु सर्वदेवा अर्पिताः प्रापितास्तदाधारेणैव वर्तन्ते तदु वायुरूपं कश्चन नात्येति नातिकम्य गच्छति । एतद्वा आत्मरूपं तद्वायुरूपम् ॥ ९॥ यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योः स मृत्युमामोति य इह नानेव पश्यति ॥ १० ॥ यदेवाऽऽत्मरूपं पूर्णमिहास्मिल्लोकेऽस्ति तदमुत्रामुष्मिन्स्वर्गे लोकेऽ. स्ति। यदमुत्रास्ति तदिहान्वनुगतमस्ति। तस्मात्तत्सर्वाकारमपि निजाका.
SR No.009368
Book TitleIshakenakathopnishad
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnandashram Mudranalay
Publication Year1915
Total Pages102
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy