Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
८१
कठोपनिषत् । परस्परयोगसंभवत्वात् । न तथा शब्दादयो दूरत एवानुभूयमानत्वात् । ननु रसज्ञानं तु रसनासंयोगेन मवति । या स्थूला सा कर्मकरणान्त:पातिनी सूक्ष्मा त्वन्तर्वर्तिनी भिन्नैव । तदेतेनैवाऽऽत्मना पूर्वोक्तेन विजानाति । स एवाविद्योपाधियोगेन प्रत्यक्चैतन्यत्वं प्राप्य हृद्यवस्थाय स्वप्रज्ञाप्रकाशेन श्रोत्रद्वारेण शब्दं बहिर्भूतं विजानाति त्वचा स्पर्शा. श्चक्षुषा रूपं रसनया रसं घ्राणेन गन्धम् । विचारितमत्रास्मिशरीरे तं विना किं परिशिष्यते परिशिष्टं मवति । तस्मात्तत्कर्तृकरणरूपमेतद्वा एतदेवोपक्रान्तं परं ब्रह्मैवास्ति । तथा विषयजातं स्वस्थूलमप्येतदेवकमवस्थाजनितत्वात्स्वप्नप्रपञ्चवत् ॥ ३॥
स्वमान्तं जागरितान्तं चोभी येनानुपश्यति ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥४॥ स्वप्नान्तं स्वप्नावस्थां जागरितान्तं चेत्युभावन्तौ येन प्रत्यगात्मनाऽनुपश्यति । अविद्यातत्कार्यगुणतत्कृतदेहादिसर्वनिरासेन तमेवाऽऽत्मानं महान्तं पूर्ण विभुं सर्वाधिष्ठानं सन्मानं मावा ज्ञात्वा धीरो विवेकी न शोचति सांसारिकहानिमृत्युदर्शनेन न शोकमवाप्नोति सर्वस्य मिथ्यात्वदर्शनात् ॥ ४ ॥ किंच
य इमं मत्पदं वेदाऽऽत्मानं जीवमन्तिकात् । ईशानं भूतभव्यस्य ततो न विजुगु
प्प्सत एतदै तत् ॥ ५ ॥ यः पुमान्विशुद्धचित्तोऽधिकारीममुच्यमानमातानं मत्पदं मम पदं विश्रान्तिमपेक्ष्य तस्मिंश्चिदानन्दमये निर्विकारत्वेनावतिष्ठते न पदवेने. तरदात्मानमात्मभूतम् । न ममैव जीवमविद्योपाधियोगाजीवरूपेण सर्वत्र वर्तमानम् । अन्तिकादन्तिकं यद्यदन्तिकत्वेन वर्तते ततोऽप्यन्तरङ्गम् । कथम् , इदं स्थूलं जडं दृश्यं तेन बहिर्भूतं दर्शनाश्रय आत्मा ततोऽन्तरङ्गः । तल्लिङ्गमपि पञ्चविंशतिवृत्तिरूपं तेन ज्ञेयं ज्ञानाश्रयाद्ध. हिर्भूतं तत्कारणं कारणशरीरं तमोरूपमपि प्रज्ञानेन ज्ञायते तस्मात्मज्ञानं तदन्तरद्धं ततोऽपि प्रज्ञाता तदाश्रयत्वात् । तस्मिन्नपि सत्तारूपत्वेन वर्तमानं ज्ञानज्ञेयसापेक्षितस्य तस्य परित्यागादात्मत्वेनानुभूयते ततोऽन्य

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102