Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 79
________________ अर्थप्रकाशसमेतामात्मनः सत्संकल्पित्वं सर्वज्ञत्वं च हीयते । कथं सृज्यमानानां जीवानां प्रवृत्तिः प्रपञ्चाभिमुखैव भवतु न कदाऽप्यन्तर्मुखेति न तन्मतिरासीत् । तदा किं नान्तर्मुखत्वमेषामिति चेत् । संकल्पस्तु बह्वस्यां प्रजायेयेत्येव । तदा कारणभूतस्य परमात्मनः प्रपश्चाभिमुखत्वमासीत्सर्जनकालप्राप्त. त्वात् । तेन सृष्टा अपि जीवाः प्रायः प्रपञ्चाभिमुखा एव बभूवुः । अन्तःप्रवृत्तिस्तेषां कदाऽपि न मवेदेवेति न । एवं चेत्तदा किमेवमुच्यते 'कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ' इति । तस्मा. कर्मोपासनादियोगेनाऽऽराधितपरमात्मप्रसादादन्तःप्रवृत्तिरपि संभवत्येवातो न दोषः ॥१॥ एवं सति पराश्चः कामाननुयन्ति बालास्ते मृत्योर्यन्ति विततस्य पाशान् । अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ २ ॥ पराऽचन्ति पराञ्चः प्राङ्मुखा बहिर्मुखा अत एव बाला बालबुद्धयः कामान् काम्यन्ते कामा विषयास्ताननुयन्त्यनुलक्ष्य गच्छन्ति ते पराञ्चो बालाःकामाननुयन्तो विततस्य विस्तीर्णस्य सकरणदेहद्वयं व्याप्य वर्तमा. नत्वात् । मृत्योर्मारकस्य रजस्तमोगुणोद्भवस्यासुरस्वभावस्य पाशान् । स एव स पाप्मा यदेवेदमप्रतिरूपं बदतीत्यादिनोक्तान्मृत्युस्वरूपानेव यन्ति । यथा तृणासक्ता इतस्ततो विचरन्तो मृगा व्याधेन विस्तृतान्पाशान्यन्ति तत्र सिताश्च भवन्ति तथा ते काम्यनिषिद्धकर्मपाशेषु बद्धा भवन्ति । संचितप्राचीनक्रियमाणाभिवृद्धया न तत्पाशाद्विमुक्तिः सहसा तेषाम् । अथशब्दोऽनन्तरारम्भार्थः । धीरा विवेकिनो नित्यानित्यवस्तु. विचारज्ञा अमृतत्वमात्मनोऽविनाशिस्वरूपत्वं सदाचार्यप्रसादाद्विदित्वेहास्मिन्संसारेऽध्रुवेषु कालाधीनत्वेनानित्येषु देहेषु स्त्रीपुत्रादिरूपेषु ध्रुवं नित्यमवस्थानमहंममतायोगेन न प्रार्थयन्ते वाञ्छन्ति ॥ २॥: . तत्सत्तयैव सर्व व्यवहरतेऽतो न तदतिरिक्तं किंचिदिति दर्शयितुमाह येन रूप रस५ गन्ध शब्द५ स्पर्शाश्च मैथुनान् । एतेनैव विजानाति किमत्र परिशिष्यते एतद्वै तत्॥३॥ येन खेन यदिन्द्रियपञ्चविधेन पुमानरूपं रसं गन्धं शब्दं मैथुनान्मिथुनेषु जातान्स्पान्विजानाति । पञ्चसु विषयेषु .स्पर्शा एव मैथुनाः

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102