Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
अर्थप्रकाशसमेतात्वाय कल्पते कल्पेत समर्थं भवेत् । तदानन्त्याय कल्पत इति द्विरुक्तिः प्रकरणसमाप्त्यर्था ॥ १७ ॥ इति श्रीमदादिगुरुदत्तात्रेयदिगाम्बरानुचरविरचिते ज्ञानकाण्डे कठवयुपनिषदर्थप्रकाशे तृतीया वल्ली
व्याख्याता ॥ ३ ॥
पूर्ववल्यां परब्रह्मोपपादनं कृतं तज्ज्ञानमपि गुहायामात्मत्वेनैवास्ती. त्युक्तमेवं सति संनिहितस्याऽऽत्मनो ज्ञानं सर्वेषामपि किं न भवतीत्यब्रोच्यते
पराश्चि खानि व्यतृणस्वयंभूस्तस्मात्परान्पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्य
गात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ॥१॥ स्वयंभूः स्वयमेवाऽऽत्मन एव निमित्तान्तरमनपेक्ष्य भूतः संभूतः स्वयंभूः । ननु कथं सिद्धस्य पुनः संभवश्चेत्तत्परिणामविकारवादाभ्यां मन्तव्यं तर्हि विना निमित्तेन तत्संभवनं कुतः । सत्यं तस्मान्न परिणामः पूर्वरूपाभ्रष्टत्वान्न विकारोऽपि पृथक्समर्थनिमित्ताभावात् । तदा कथमयं स्वयंमूरिति चेत् । शुद्धादात्मनः स्वगतचित्प्रकृतिमवलम्ब्य शब. लेनेश्वररूपेण संभूतः । तत्संभवनं प्रकृतिनिमित्तेन चेत्तदा कथं तदभाव उज्यत इति चेत् । न सा पृथक्सिद्धा स्वगता स्वरूपे तन्मयी यथा दीपप्रभा रत्नज्योतिरतः स एव सा। अतः स्वयमेवोपादानं स्वस्य निमित्तमपि । तस्मात्स्वयंभूः परमात्मा स्वसृष्टानां जीवानां रवानीन्द्रियाणि द्वारभूतत्वेन तद्रूपत्वात्तत्संज्ञानि पराश्चि पराऽश्चन्ति पराश्चि प्राङ्मुखानि व्यतृणन्निर्ममे । तस्मात्तत्स्वमिन्द्रियं परानात्मेतरान्बहिर्भूतान्पश्यति । नान्तरात्मन्नन्तरात्मनि गुहायामवस्थिते तुरीये प्रज्ञानरूपे वर्तमानमात्मानं पश्यत्यन्तदृष्ट्या न साक्षात्करोति । पराङिति पाठान्तरम् । तत्स्वयोगेन पराऽश्चति पराबहिर्मुख एव भूत्वा पश्यति नान्तरात्मन् । किं तेनेन्द्रियाणि प्राङ्मुखान्येव सृष्टानि । सर्जनकाले तस्य परमात्मनः सृष्टिविस्तारापेक्षवाऽऽसीत्तस्माद्बह्वस्यां प्रजायेयेति संकल्पेन तानि तथा विस्तारानुरूपाणि सृष्टानि । ननु तदा सोऽस्मदादिवसत्सृ

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102