Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
• कठोपनिषत् । टिनिष्ठस्तदपेक्षावानिति जातं नु । न तद्गुणयोगेन तावत्तकृत्वा पश्चारस्वयमेव तस्मानिवृत्तो न जीवा इव तत्रैव निमग्नः पराद्धृतोऽस्ति । ननु च तदा गुणवशत्वमपि तथा जातं नु तदा कथं तत्प्रकृतिराश्रयव्यामोहिनी । यथा स तदवलम्बने शक्तस्तथा तत्त्यागेऽपि न तत्र निमित्तान्तरापेक्षावानस्मदादिवत्तेन स एव समर्थो न तथा तत्प्रकृतिरविद्येव दृढबन्धनकरी यत्र गुणास्तत्र तदनुरूपं किंचित्कार्य संभवत्येव तदभावे कुतो गुणत्वं तेषाम् । केवले निर्गुणे तत्कार्यस्याप्यभावो न परमात्मनि तथा विज्ञेयं तेन सर्वेण सह स नित्यमुक्तोऽतो न दोषः । चेन्नान्तरात्मनि पश्यति तदा किं न्वात्मदर्शनाभाव एव । न कश्चिधीरो विवेकी शुद्धचित्त आस्थावानात्मनोऽमृतत्वं शुद्धेन रूपेणामृतभावमिच्छन्नावृत्तचक्षुरावृत्तं प्रत्यावृत्तं चक्षुश्चक्षुनिष्ठं प्रज्ञानं यस्य स आचार्यप्रसादादात्मप्रज्ञानं बहिर्विषयेषु प्रविमक्तं ततः प्रत्यावर्त्यान्तरात्मनि प्रत्यगात्मानं प्रत्यञ्चति प्रत्यङ्ग-प्रत्यङ्मुख आत्मा तं प्रत्यगा. त्मानमैक्षदेक्षत दृष्टवान् । तदा पूर्वमेव कस्यचिदनुभवो न भविष्यद्वतमानकालयोरिति नोऽधिकारिणां कालत्रयेऽपि तज्ज्ञानं वर्तत एव । श्रूयते च तथा 'तद्यो यो देवानां प्रत्यबुध्यत स स तदभवत्तथर्षीणां तथा मनुष्याणां तद्धतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदर सर्व भवति तस्य ह देवाश्च नाभूत्या ईशत आस्मा ह्येषा स भवति' इति । ननु सत्संकल्पेन परमात्मना पराङ्मुखत्वेनैव सृष्टानीन्द्रियाणि पुनः कथमन्तर्मुखाणि भवन्ति । सत्यं, न तत्संकल्पस्य कोऽप्यन्यथाकरणे शक्तः स्वयं तु भवत्येव नेति वक्तुमशक्यं संकल्पस्य मिथ्यात्वप्रसङ्गात् । तस्मात्तदिच्छयैव संभवति नास्येच्छया किंचित् । कथं सृष्टाञ्जीवानविद्यावृतान्गुणतत्कर्मवद्धान्संसारसागरे पतितान्वीक्ष्य तेषामात्मरूपप्रकाशनेनोद्धरणेच्छया वेदांस्तत्रोक्तसत्क
दिसाधनानि निर्ममे । तद्योगेन तमाराध्य तत्प्रसादावाप्तपरविद्यये. न्द्रियाणां पुनरन्तर्मुखप्रवृत्तिर्भवति नास्येच्छया । ननु कुतस्तदा परमात्मनः सर्वज्ञत्वं, यथा कश्चित्पुमान्प्रयोजनान्तरमुद्दिश्य तदनुरूपं कार्य विदधाति । अग्रे तदेव प्रतिकूलं दृष्ट्वा पुनरन्यथा करोति । असर्वज्ञत्वात् । न सर्वज्ञे परमात्मन्येवं वक्तुमुपपन्नम् । पूर्वं सृष्टिविस्तारापे. क्षया जीवानामिन्द्रियाणि सृष्ट्यभिमुखान्येव कृतान्यग्रे मोक्षविषये तत्प्रतिकूलं विज्ञाय पूर्वकृतमात्मसंकल्पमन्यथा कृत्वा तान्येवान्त:प्रवृत्तिपराणि व्यधायि तदा कथं तत्सर्वज्ञत्वम् । नानेन प्रयोजनेन पर:

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102