Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
७६
अर्थप्रकाशसमेता
तमः प्रधानं सर्ववृत्तिविलयेन जडत्वरूपं महति तत्कारण आत्मनि महाकारणरूपे यच्छेत्तवधानसाक्षित्वेन तदवलम्बं संकल्पांश्च त्यक्त्वा साक्षिस्वरूपेणैवावतिष्ठेत् । तत्प्रज्ञानं शुद्धसत्त्वप्रधानत्वेन महाकारणदेहरूपं शान्तं तद्टत्वं दृश्यदर्शनसापेक्षं तन्निरासे किं तेनावलम्बितेन न तेनाप्यात्मविभानं भवत्युक्तं च ' प्रज्ञानं न वेद ' इति सोऽदृष्टो द्रष्टा श्रुतः श्रोता तद्वत्परित्यागेन वेदितव्यस्तस्मात्तच्छान्तं साक्षित्वधपरित्यागेन निर्विकल्पतया कृत्वाऽऽत्मनि शुद्धे पूर्णे तन्मयत्वेन यच्छेत् । तेनैवाऽऽत्मत्वेन निर्विकल्पतयाऽपरोक्षत्वेनाऽऽत्मानुभवः । एवं नित्यशः शनैः शनै: शान्तसत्त्ववृत्तिं कृत्वा नित्यं तन्मयत्वेनावस्थानं साकाष्ठा सा परा गतिः ॥ १३ ॥
एवं संसाध्य प्राप्तदशेन किं कार्यं तदाह
उत्तिष्ठन्तं जाग्रतं प्राप्य वरान्निबोध तम् । क्षुरस्य
धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥ १४ ॥ उक्ताभ्यासेन नित्यशः कृतेन तमात्मानमुक्तविधमुत्तिष्ठन्तं सदोत्थितमेव नतु शयानं तमोभावेन नित्यं चिदानन्दमयत्वेन वर्तमानत्वादतो जाग्रतं स्वस्मिन्स्वप्रकाशेनैव जागरां प्राप्नुवन्तं न तु स्वपन्तं प्राप्य संसिद्धसाधनः परानन्यानन्तेवासिनोऽधिकारिणः परीक्ष्य निबोध निबोधय । यतो यथा क्षुरस्य धारा निशिता तीक्ष्णाऽतो दुरत्यया दुःखेनाप्यत्येतुमशक्या तथा तत्पथः पन्थानं दुर्गं दुःखेन गम्यते दुर्गं कवयो ज्ञानिनो वदन्ति । अतः परान्सम्यक्परीक्ष्य निबोधय । अपरीक्षिता अनधिकारिणो निबोधिताश्चेत्तर्हि ते तस्मिन्दुर्गे पथि वर्तितुमजानन्तस्तत्पद्मलब्ध्वा ततयुताः सिद्धंमन्याः कर्मादित्यागेन भ्रश्येयुः ॥ १४ ॥
अथैवंरूपदुर्गम विज्ञानेन किं स्यात्तदाह
अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यम
गन्धवच्च यत् । अनायनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते ॥ १५ ॥
यदात्मरूपं सलिलवन्निरन्तरत्वेन परिपूर्ण मध्यशब्दमविद्यमानः शब्दो यस्य तदशब्दम् । अस्पर्शमविद्यमानस्पर्शम् | अरूपमविद्यामानरूपम् ।

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102