Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 74
________________ कठोपनिषत् । वाचकः पुरुषशब्दोऽस्ति सर्वासु पूर्षु शयनात्पुरुष इति तासु निद्रितवनिर्विकल्पेन सत्तारूपत्वेन वर्तमानत्वात् ॥ ११ ॥ किंच एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्रयया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२ ॥ एष पूर्वोक्तः शुद्धात्मा सर्वेषु भूतेषु गूढोऽविद्यातत्कार्यदेहचतुष्टयावृतो हृदयगुहायां वर्तमानत्वात् । अत आत्मा प्रत्यगात्मभूतः सन प्रकाशते प्रकटो मवति साक्षात्काराय । तदा किं साक्षात्काराभाव एव, न, सूक्ष्मदर्शिभिः सूक्ष्मं सूक्ष्मतरं द्रष्टुं शीलमेषां तैः सारासारवस्तुविज्ञानवद्भिः सूक्ष्मया गुणयोगात्साक्षित्वादिरूपेण स्थूलत्वमसंप्राप्तयाऽउययाऽग्रे मवाऽग्या तया निर्विकल्परूपया बुद्धया प्रज्ञानेनाधिष्ठानाकारेण दृश्यत आत्मन्येवाऽऽत्मत्वेनानुभूयते ॥ १२॥ तत्साधनमाह यच्छेदाङ्मनसि प्राज्ञस्तयच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति यच्छेत्तच्छान्त आत्मनि ॥ १३॥ . प्राज्ञः प्रकर्षेण जानाति प्रज्ञः प्रज्ञ एव प्राज्ञो विचक्षणो गुरुदत्तप्रज्ञावान्विविक्तदेश आसनं प्रतिष्ठाप्योपविश्य समं कायशिरोग्रीवं धृत्वा स्वनासाग्रे दृष्टिमवधार्य वाग्वाचं मनसि तत्कारणे यच्छेद्वक्तव्यपरित्यागाद्वाड्मूलत्वेन मनोनिष्ठो मवेत् । कथम् । बाह्यार्थावलम्बं त्यक्त्वा तन्निष्ठं प्रज्ञानं ततः प्रत्यावर्त्य वानिष्ठं कर्षीत । किं तद्वाक्स्थानम् । वैखरीरूपायास्तस्या दन्तोष्ठायेव न तन्मुख्यं रूपम् । तत्पूर्वं तु मध्यमा ध्वनिरूपा तस्याः स्थानं कण्ठदेशः । मध्यमायास्तस्या अपि पूर्वरूपं पश्यन्ती सा संकल्परूपा तस्याः स्थानं ततोऽप्यन्तरङ्गं तस्या अपि पूर्वरूपं परा सा मनोरूपा तत्स्थानं हृदयमेव । इति वाङ्मूलत्वेन मनोरूपस्याऽऽत्मनो हृदय एव नित्यमवस्थानमिति बुद्ध्वा बाह्यशरीरं बहि. स्त्यक्त्वा तदसङ्गत्वेनान्तरगन्तया संकल्पाधिष्ठाने मनोमय आत्मनि निस्तिष्ठेद्यावत्तत्र चिदाकाशानुभवः । ततस्तदृष्ट्या स्थूलादिसर्वबाह्यप्रपश्चाभावोऽनुभूयते तज्ज्ञानं रजस्तमोयोगान्मनोरूपमभावानुसंधानेन तन्निष्ठं तदनुसंधानत्यागेन प्रत्यावर्त्याऽऽत्मनि प्राज्ञरूपे यच्छेत्संकल्पपरित्यागात् । तदेव लिङ्गदेहनिरासेन कारणदेहनिष्ठत्वम् । ततस्तज्ज्ञाने

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102