Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 72
________________ कठोपनिषत् । " यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा । ...तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥६॥ .. यस्तु सारथिविज्ञानवान्विशिष्टज्ञानवान्भवति । यस्य सारथिरूपा बुद्धिः सारासारविचारवती मार्गामार्गज्ञाननिपुणा सत्त्वप्रधाना तया युक्तेन समाहितेनासत्संकल्पशून्येन मनसा सदा युक्तः । न कदाऽप्ययुक्तेन मनसा तस्य पुंस इन्द्रियाणि हयरूपाणि पश्यानि वशं गतानि भवन्ति तेषां संकल्पमूलत्वात् । कस्य क इव । सारथेः सदश्वा इव । यथा सदश्वाः सन्तश्च तेऽश्वाः प्रग्रहसारथिवश्या भवन्ति तथा तद्वशानि भवन्ति ॥ ६॥ तेन युक्तायुक्तबुध्धादियोगेन किं तयोः प्रायं तदाह यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः। न स तत्पदमामोति संसारं चाधिगच्छति ॥ ७ ॥ यस्त्वविज्ञानवानुक्तविधो भवति तेनामनस्को न विद्यमानं वश्यं मनो यस्य सोऽमनस्कः । सदा सर्वदाऽशुचिस्तत्संकल्पवश्यत्वेन नानाविधभोगवासनयाऽसत्कर्मकृत्तेनाशुचिरेव नित्यम् । सोऽनधिकार्यनेकविधाशुमक्रियमाणसंचितयोगान्न तत्पूर्वोक्तमक्षराख्यं यस्माद्भूयो न निवृत्तिस्तत्पदमाप्नोति । किंतु संसारं च संसारमेवानेकविधदुःखसागरमधिगच्छति प्राप्नोति ॥ ७ ॥ यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः। ... स तु तत्पदमामोति यस्माद्भूयो न जायते ॥ ८॥ यस्तु विज्ञानवान्भवति तेन समनस्को नियतमनस्कोऽसत्संकल्प. शून्यो मुमुक्षुः सदा शुचिरकर्मविकर्मपरिवर्जनेन नित्यं सत्त्वप्रधानत्वाद्भवति । स तु निर्धारण तच्चिदानन्दमयमभयं पदमाप्नोति किं तत् । यस्माद्यत्पदं प्राप्य भूयो न जायत उत्पद्यते न पुनः संसारसागरमवा: नोति ॥ ८॥ यस्मादेवं तस्मात विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः। . सोऽध्वनः पारमामोति तद्विष्णोः परमं पदम् ॥९॥ . . । यस्तु पुमानुक्तप्रकारेण विज्ञानसारथिविज्ञानं सारथिर्यस्य स मनः प्रग्रहवान्नरः सोऽध्वनो मार्गस्य पारमवसानं समाप्तिमाप्नोति नेतस्वज्ज

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102