Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
कठोपनिषत् ।
तेन छायास्थानीयः । इत्यनयोस्तत्सारूप्याब्रह्मविदस्तथा वदन्ति । ननु तदत पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्ध इत्यनेन कथं परमात्मनोऽपि समगुहानुप्रवेशः कर्मफलभोगोऽप्युच्यते । सत्यं तच्छुद्धस्वरूपोपलब्धिर्गुहायामेवास्ति । श्रूयते च 'मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं संनिधाय । तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति' इति । कथं तस्यानेककर्मफलभोग इति चेत् । न स्वतः स संभवति जीवोऽयं तदंशरूपो नांशांशिनोर्मेदोऽतस्तदन्वयेन तथोक्तम् । यद्वा सत्तारूपत्वेन तत्र वर्तमानत्वात् । तथाऽपि सोऽसङ्ग एव । तथा ये पश्चानय आहवनीयोऽन्वाहार्यपचनो गार्हपत्यः सभ्यश्चेति चत्वारः श्रीताः स्मार्तश्चौपासन इति पञ्चसंख्याका अनयो येषां ते वदन्ति ये च विनाचिकेतास्त्वया नचिकेतसा प्राप्तोऽतस्तव नचिकेत. सोऽयं नाचिकेतोऽग्निस्तस्य चयनविधानप्रतिपादका मन्त्रसमूहास्त्रयो नचिकेता येषां ते त्रयाणां नाचिकेतानामध्येतारस्ते वदन्ति । तवैव नाना. भविताऽयममिरिति वरदानेन तत्कालमारभ्य तस्याने चिकेतसंज्ञा । तत्प्रतिपादनेन तेऽपि नाचिकेता भवन्त्विति वरदानकल्पं विनाचिकेता इति मृत्युवचनम् । तेषामध्येतारोऽपि तत्र प्रतिपाद्यमग्निं नालभन्तातो नचिकेता: स त्वमग्निं स्वर्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यमिति द्वितीयेन वरेणावृणीत ॥ १ ॥ यस्मादेवं तस्मात्
यास्ये तुरीये जानानामक्षरं ब्रह्म यत्परम् ।
अभयं तितीर्षतां पारं नाचिकेत५ शकेमहि ॥२॥ यास्ये कर्मोपासनाकृतेश्वराराधनरूपयनसाध्ये तुरीये चतुर्थे शुद्धसत्त्व प्रधानत्वेन प्रज्ञानमये देहे । स्वभावावस्थात्रयप्राप्तिः सर्वेषामस्ति न तुरीयायास्तस्माद्यास्ये तुरीये यदक्षरं न क्षरत्यक्षरं तेनावृद्धिमदपि परं सर्वोत्कृष्टममयं यत्र भयं नास्त्येवाद्वितीयत्वात् । पारं संसारसमा. तिरूपं तज्जानानां ज्ञातुं शक्नुवन्ति जानास्तेषां जानानां जनानामधि. कारिणां तितीर्षतां संसाराधि तर्तुमिच्छूनामन्तेवासिनां नाचिकेतं नचिकेतसा त्वया लब्धमतो नचिकेतसस्तवेदं नाचिकेतं वक्तुमुपदेष्टुं च शकेमहि शक्नुयाम शक्ता भवेम ॥२॥

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102