Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 69
________________ अर्थप्रकाशसमेतान्मृत्योरपि स मृत्युः। अत एव तस्य मृत्युत्वमुच्यते-'नैवेह किंचनाग्र आसी. न्मृत्युनैवेदमावृतमासीत्' इति । इत्थेत्थमनेन प्रकारेण तमात्मानमद्वैतं को वेद विना प्रज्ञानेन ज्ञातुं क्षमेत । यत्राऽऽत्मनि स एक एव न नाना न नानात्वेन तिष्ठति । किं तत् । न तस्याऽऽत्मन इतरत्वेन ज्ञानं संमवति । तस्मात्सर्वोपसंहारे प्रलये वेदितव्यश्चेत्तदा सर्व साम्यान्तर्गतं भूत्वा तदे. करूपं भवति तदा केन कथं स विज्ञेयः । समाधावपि न ज्ञातृत्वेन तन्निरासात्तन्मयेन प्रज्ञानेनैवान्तः प्रज्ञानेनैव वेदितव्यः । न केवलस्य सन्मात्रस्य चितं विना चिन्मयत्वम् ॥ २५ ॥ इति श्रीदिगम्बरानुचरविरचिते ज्ञानकाण्डे कठवल्लयुपनिषदर्थ प्रकाशे द्वितीया वल्ली व्याख्याता ॥२॥ इत्यात्मनः शुद्धरूपस्य वर्णनं कृत्वा तमेव प्रकृतियुक्तमधुना वर्णयति ऋतं पिबन्तौ सुरूतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपो ब्रह्मविदो वदन्ति पञ्चायो ये च त्रिनाचिकेताः ॥ १ ॥ सुकृतस्य पुण्यस्य लोके लोक्यते प्राप्यते सुकृतं फलरूपेण यत्र स लोकस्तस्मिन्नतः परमे प्रकृष्टतमे परार्धे प्रशस्ते ब्रह्ममुवनादिरूपे स्वर्लोक ऋतं पिबन्तावृतं गतिमदस्थिर भोगेनान्तवत्सुकृतकर्मफलरसं पिबन्ता उपभुञ्जानौ । गुहामुक्तपूर्वां हृदयरूपां प्रविष्टौ सर्वदाऽनुप्रविश्य वर्तमानौ। एवंविधौ प्रत्यक्परमात्मानौ ब्रह्मविदो ब्रह्म परमक्षरं विदन्ति ते छायातपो छाया चाऽऽतपश्च छायातपो ताविव वदन्ति । कथं, यथा छायातपो परस्परविरुद्धधर्माणावित्याभासमानावप्यभिन्नरूपौ विना प्रकाशेन कुतश्छाया यत्र स तत्सत्तारूपस्तत्रैव सा प्रकाशमयी तदावरणभूता । एवम• त्रापि प्रत्यक्परमात्मानौ परस्परविरुद्ध धर्माणावप्यभिन्नरूपावध्यात्माधि देवतान्वययोगात् । कथं तयोरुक्तं साम्यमिति चेत् । ईश्वरप्रकृतिर्माया साश्रया व्यामोहिनी तेन सर्वज्ञस्तया सह नित्यं सच्चिदानन्दरूपोनिर्विकार एव तेनाऽऽतपस्थानीयः । जीवप्रकृतिरविद्या साश्रयव्यामोहिनी नित्यं गुणप्रधानाऽज्ञानान्यथाज्ञानवती तयुक्तत्वात्तत्प्रधानत्वेन जीवोऽपि तथैव

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102