Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
७२
अर्थप्रकाशसमेतापुनस्तमेवोपक्रान्तं वर्णयति
आत्मान५ रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥३॥ ___ आस्मानं प्रत्यगात्मानं रथिनं रथोऽस्त्यस्य रथी तं तस्याधिष्ठातारं विद्धि जानीहि ! शरीरं स्थलं रथमेव च तत्तुल्यत्वाद्विद्धि । बुद्धिं तु प्रज्ञानं सारथिं विद्धि । प्रज्ञानप्रेरितान्येव ज्ञानकर्मेन्द्रियाणि शरीर चेतस्ततो व्यवहरन्ति । मनः संकल्परूपं प्रग्रहमेव चाश्वनियमनरश्मि विद्धि । तत्संकल्पेनैव तानि बद्धानि यथासंकल्पं गच्छन्ति न तदमावे॥३॥
इन्द्रियाणि हयानाहुविषयांस्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४ ॥ इन्द्रियाणि ज्ञानकर्मकरणानि हयानश्वानाहुविवेकिनः । तैरेव शरीररथस्य गमनप्रवृत्तिर्यतः । तेषूक्तेष्विन्द्रियहयेषु विषयाञ्छब्दादीन्गोच. रानुपभोग्यान्विद्धि । तैरेव विषयं गत्वा तदुपभोगः क्रियते । यस्मादेवं तस्मान्मनीषिणो विवेकिन आत्मा रथी शरीरं रथमारुह्येन्द्रियमनोयुक्तमिन्द्रियैर्मनसा च युक्तं विषयजातं भोक्तेत्याहुर्बुवन्ति । यत्र मनोगोचरत्वं तत्र कुत इन्द्रियप्रवृत्तिस्तदभावे कुतो भोगः ॥ ४ ॥ अथानेनैव रथेन संसारमोक्षमार्गप्राप्तिरस्तीति कथ्यते
यस्त्वविज्ञानवान्भवत्ययुक्तमनसा सदा ।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥५॥ यस्तु रथ्यविज्ञानवानविशिष्टबुद्धिमान्मवति । यस्य सारथिरूपा बुद्धिरविवेकप्रधाना सारासारविचारशून्या तेन मार्गामार्गज्ञानहीनाश्वप्रवृत्तिज्ञानरहिता । तेनायुक्तमनसाऽयुक्तेनाश्वजयेऽनुपपन्नेन प्रग्रहरूपेण मनसा सदा युक्तो भवति । तस्मात्तस्येन्द्रियाण्यश्वरूपाण्यवश्यानि न तद्वशं गतानि । तत्र दृष्टान्तः-सारथेर्दुष्टाश्वा इव । यथा दुष्टाश्चा दुष्टाश्चाविनीतास्तेऽश्वाश्च ते प्रग्रहेण सह पलायिताः सारथेरवश्या भवन्ति तथा तान्यवश्यानि भवन्ति । तेन प्रग्रहेण मनसा बुद्धया च सारथिरूपया सह रथिनं घोरे कामक्रोधाद्युपद्रावकावगुणवनचरसंकीनंऽमार्गे पातयन्ति ॥ ५॥

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102