Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
७४
अर्थप्रकाशसमेता
न्ममरणयोगेन पुनः पुनरिहामुत्र च भ्रमणशीलः । योऽनेन संसार सीा पारोऽवाप्तस्तद्विष्णोः परमात्मनः सर्वेश्वरस्य परमुत्कृष्टं निरुपा. धिकं पदम् । कुतो विष्णुशब्देन परमात्मा विज्ञेय इति चेत् । श्रूयते पुराणेषु-तमादिदेवं चिद्रूपं केचिद्रुद्रं वदन्ति हि । केचिच्च विष्णुमपरे धातारं ब्रह्म चापरे' इति । अत्रापर एव विष्णुर्विज्ञेयश्चेत् । न तस्यैव तत्परं पदं देवतात्रयस्यापि संभवति तस्मात्पर एवात्र विज्ञेयः । यद्वा वेवेष्टि सर्व विष्णुस्तस्य व्यापकस्य ब्रह्माण्डाधारत्वादन्तबहिश्च वर्तमानस्य परमात्मनः परमुत्कृष्टतमं निरुपाधिकं पदं मायासङ्गत्वेन नित्यं तत्स्वपदे योगनिद्रयाऽवस्थितत्वात् ॥९॥ तत्पदं स्तौति
इन्द्रियेयः परा ह्या अर्थेश्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १०॥ इन्द्रियेभ्यः श्रोत्रादिन्योऽर्था विपयाः संकल्परूपाः परा ह्यन्तरङ्गा एव । अर्थेभ्यश्च वासनारूपेभ्यो मनः परमन्तरङ्गं तदधिष्ठानत्वात् । ननु किं बाह्यान्परित्यज्य वासनारूपा अर्था गृहीताः । बाह्यार्थेभ्य इन्द्रियाणां परत्वं प्रत्यक्षतया सर्वेरनुभूयत एव । अतस्तदुपपादनमनर्थकमेव । सूक्ष्माणामेवेन्द्रियेभ्यः परत्वविज्ञानायेदमुक्तम् । मनसस्तु परा बुद्धिस्तत्साक्षिभूतत्वात् । बुद्धेमहांस्त्रिगुणाहंकाररूप आत्मा परः॥१०॥
महतः परमव्यक्तमव्यक्तात्पुरुषः परः।।
पुरुषान परं किंचित्सा काष्ठा सा परा गतिः॥११॥ महतोऽहंकारात्तस्मादव्यक्तं मायारूपं परमात्मनो देहद्वयबीजभूतत्वासूक्ष्मं तृतीयं परम् । तदंशत्वादात्मनः कारणशरीरमत्राव्यक्तशब्देन विज्ञेयम् । तत्रिगुणाहंकाररूपाल्लिङ्गशरीरात्परमेव । तस्मादव्यक्तात्पुरुष उपाध्याश्रयः परः । पुरुषान्न परं किंचित्स एव सर्वस्मात्परः । सा काष्ठा परमा दशा निर्विकल्पा । तस्मिन्पुरुषे पूर्णे मावनाद्वयनिरासेन भूमिकात्रयमुल्लद्ध्य निर्विकल्पतया सुलीनचित्तत्वेन तद्रूपेणावस्थानमेव दशा सा परा गतिर्मोक्षाख्या । यां प्राप्य न पुनः संसारदर्शनमस्ति । मनु कथमुपाध्याश्रयः पुरुष एव परत्वेनोच्यते पराक्षरस्य विद्यमानत्वे न तयोर्भदे यच्छुद्धं तदेव शबलं पुरुषरूपमित्यभेददृष्ट्योच्यते । परस्यापि

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102