Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
२० .
अर्थप्रकाशसमेताकर्तुः सत्स्वरूपत्वात् । एवं चक्षुषश्चक्षुः सर्वकरणेष्वपि सत्तारूपत्वेन तद्धर्मप्रकाशकं सत्स्वरूपं विज्ञायतस्मिन्कर्तकरणसंघातरूप आत्मबुद्धिमतिमुञ्चातित्यज नेदं स्थूलाद्यात्मत्वेन मन्वीथाः। कथम, इदं स्थूलं सर्वदा व्यवहारे वर्तमानत्वादात्मत्वेन प्रतीयमानमपि नाऽऽत्मा दृश्यत्वाजडत्वात् । यदन्तः प्रज्ञानमयं कर्तृभोक्तृज्ञातृरूपं करणप्रकाशकं स्थूलस्य प्रव. तयित तदात्मरूपमिति मतिमतिमुश्च तदपि विलक्षणधर्मसाक्षित्वाज्ज्ञेयमेव न ज्ञातृरूपम् । अभिहितप्रकारेण येन सत्तारूपेण प्रज्ञानान्तर्गतेन विनेदमपि जडमनात्मेति बुद्ध्वा सर्वमूलप्रज्ञानान्तर्गतत्वेन ज्ञानाज्ञानानवलम्बनेन निर्विकल्पतया तदधिष्ठाननिष्ठो भवेदिति भावः । किं तत्फलमित्यत्राऽऽह-धीराः स्फुरणादिसर्वावलम्बपरित्यागेन यस्य भासा सर्वमिदं विभाति तस्मिन्नात्मनि चित्तं दधाना विज्ञानिनः संसिद्धा अस्माल्लोकात्मेत्य प्रारब्धक्षये देहत्यागेन गत्वाऽमृता अविनाशिनो भवन्ति । यतो ' ब्रह्मविद्व भवति ॥ १॥ न तद्विज्ञाने कर्तृकरणसंघः साधनमित्याह
न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो न विद्मो न विजानीमो यथैतदनुशिष्यात् ।। अन्यदेव तद्विदितादथो अविदितादधि ।
इति शुश्रुम पूर्वेषां ये नस्तद्विचचक्षिरे ॥२॥ चक्षु रूपज्ञानकरणं यथा स्वविषयं गच्छति तथा तत्र सत्स्वरूप आत्मनि न गच्छति न तं विषयी करोति तथा वाक्परादिरूपाऽपि न गच्छति न तया यथावत्तदुपपाद्यते नो मनोऽपि कर्तृस्वरूपं स्वसंकल्पयोगेनात एवोच्यते ' यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ' इति । संकल्पविकल्पपरित्यागेन केवलेन प्रज्ञानेनापि न विद्मो न विजानीमो वयम् । श्रूयते च 'यं प्रज्ञानं न वेद यो बुद्धेः परतस्तु सः' इति । ज्ञानाज्ञानपरिवर्जनेनाऽऽत्मनि विज्ञातेऽप्याचार्यों यथा येन प्रकारेणैतदेतमनुशिष्यादनुशासनं कुर्यात्तदपि न विजानीमो ज्ञानसाधनभूतप्रज्ञानादिनिरासेन कथं तद्विज्ञानमुपदिशेन्नु । तार्ह तद्विज्ञानमस्ति वा नास्तीति चेत् , य आचार्यास्तत्परं तत्त्वं नोऽस्माकं विचचक्षिरे विशेषेण व्यक्तमुक्तवन्तस्तेषां पूर्वेषां पूर्वस्थितानां वचोभिरितीत्थं शुश्रुम श्रुतवन्तो वयम् । कथम्, तदात्मतत्वं विदितात्प्रज्ञानादिभिर्विदितादन्यदेव

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102