Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
अर्थप्रकाशसमेतादग्धुम् । स तत एव निवृत्तो नैतदशकं विज्ञातुं
यदेतयक्षमिति ॥ ८॥ तेभ्यो देवेभ्यः प्रादुर्बभूव भिन्नत्वेन तुरीयेण सर्वेश्वररूपेण व्यक्तमभूत् । तमतीवाद्भुतं सर्वपूज्यं व्यक्तं दृष्ट्वाऽपि कोऽयमिति न व्यजानत विज्ञातवन्तः । एतत्पुरोर्वति यक्षं पूज्यं सर्वश्रेष्ठं किमस्तीति । तं विज्ञातुकामास्ते देवा अमिमग्रणीत्वेन सवश्रेष्ठं मत्वाऽब्रुवन्हे जातवेदस्त्वमेतद्विजानीहि समीपं गत्वा किं किंरूपमेतदृश्यमानं यक्षं पूजनीयं सर्वोस्कृष्टत्वाद्विद्धि । तैः प्रार्थितोऽग्निस्तथेति तेषां विजिज्ञासावाक्यमङ्गीकृत्य तद्यक्षमभ्यद्रवद्भ्यगच्छत् । गत्वाऽन्तिकमवस्थितं तं तद्यक्षं त्वं कोऽसीत्यभ्यबददुक्तवत् । तच्छत्वाऽग्निर्वा अहमस्मीत्यब्रवीत्तत आत्मनो महत्त्वख्यापनाय पुनराहाहं वा अहमेव जातवेदाः प्रतिसगंजायमानस्य सर्वस्य वेदिताऽस्मीति च । तदाकर्ण्य यक्षमूचे तस्मिन्नुक्तविधे त्वयि किं वीर्यमस्तीति सोऽवददिदं सर्वमप्यादहेयमादग्धुं शक्नुयाम् । किं तदिति चेद्यदिदं किंच पृथिव्यामस्ति तत्सर्वमपि । तच्छ्रत्वा तद्यक्ष तद्र्वापनोदनायेच्छयैव तस्मा अग्नये तृणं निदधावेतद्दहेत्युक्तवत् । ततः सर्वमपि भस्मयतो मम किं तृणदाहे शङ्केति धिया सर्वजवेन सर्ववेगेण यथा स्ववेगस्तथा तत्तणमुपप्रेयाय समीपं गतवान् । तथाऽप्यग्निनिजतेजसा तद्दग्धुं न शशाक समर्थोऽभूत् । सोऽग्निस्तत एव विगत. गर्वः सन्निववृते । यत्संनिधौ तृणदाहेऽप्यसमर्थोऽहं कथं तदूपं विज्ञानुं शक्नुयामिति बुद्ध्वा तदविज्ञायैव निवृत्तः स देवान्प्रत्यागत्योक्तवानह. मेतद्विज्ञातुं नाशकं शक्तोऽमवं यदेतदेवंरूपं यक्षमस्तीति ॥८॥ ततः
अथ वायुमब्रुवन्वायवेतद्विजानीहि किमेतद्यक्षमिति। तथेति तदायदवत् । तमन्यवदत्कोऽसीति वायु अहमस्मीत्यब्रवीत् । मातरिश्वा वा अहमस्मीति । तस्मिंस्त्वयि किं वीर्यमित्यपीद सर्वमाददीय यदिदं पृथिव्यामिति । तस्मै तृणं निदधावेतदादत्स्वेति

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102