Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
३४
अर्थप्रकाशसमेताभोगाहं सुखप्रदं स्यात्तेन तद्दातुर्विशिष्टफलदं भवति । यत्तु तद्विपरीत सामान्यसुखप्रदं क्लेशजनकं च तन्न तथा दुःखमिश्रस्यैव सुखस्य प्रदातृ । एवं पित्रा विहितं तद्दोदानं दृष्टवन्तं नचिकेतसं तद्विधलोकप्राप्तिरस्य मा भूदिति विवेकेन श्रद्धोक्तविधाऽऽविवेश ॥ ३ ॥
ततो येन तल्लोकप्राप्तिरस्य न भवेद्यच्छ्रेयोऽस्याऽऽत्मनश्च तदधुना साधनीयमिति भावेन
स होवाच पितरं तात कस्मै मां दास्यसीति द्वितीयं
तृतीयम् । त होवाच मृत्यवे त्वा ददामीति ॥४॥ स हैवं श्रद्धाविष्टः कुमारः पितरमुशन्तमुवाच । श्रेयोर्थिना त्वया सर्वमपि दानं दत्तमधुना हे तात कस्मै पुरुषाय मां दास्यसीति यदन. शिष्टोऽहं श्रेयः साधयिष्य इत्यभिप्रायः । तस्य तमभिप्रायं न विवेदातो नोत्तरं ददौ पिता । तत्प्रतिवचनमिच्छुः स तदेव तात कस्मै मां दास्यसीति होवाच । तथाऽपि तूष्णीभूतं वीक्ष्य पुनस्तदेव तृतीयं होवाच । ततस्तत्पश्नाभिप्रायमयं श्रेयोर्थी तत्साधन उद्युक्त इति बुद्धवान् । अत्र त ह परीत उवाचेति तैत्तिरीयाः पठन्ति परीतस्तत्प्रश्नाभिप्राय परिज्ञातवान् । तदुपदेष्टा त्वत्रेदानी मृत्युरेवास्तीति विज्ञाय पिता तं हैवं त्रिवारमुक्तवन्तं कुमारमुवाच मृत्यवे यमाय त्वां ददामि । इति तद्वचनं श्रुत्वा बहुवारं पृष्टः स पिता क्रुद्धः सन्नेवमुक्तवान्किमिति क्षणं तूष्णीं बभूव । ततस्तदनुरूपामेवाशरीरिणीं वाचमम्बरे श्रुत्वा तच्छंङ्का. निवत्तिमवाप्यानन्दनिर्भरः सन्नपि मृत्युशङ्का मन्वानः पुनरुवाच । एतनाचिकेतेऽभिहितमस्त्यग्रे वक्ष्यते ॥ ४ ॥
बहूनामेमि प्रथमो बहूनामेमि मध्यमः ।
कि स्विद्यमस्य कर्तव्यं यन्मयाद्य करिष्यति ॥५॥ अहमत्र बहूनां जनानां मध्ये प्रथमो मुख्यत्वेनाग्रः सन्नेमि गच्छामि तथा बहूनां मध्यमो मध्ये भवो मध्यमस्तैः परिवृतः सन्नेमि न पृष्ठतो न चैकाकी । अथ चेद्यमाय दास्यसि तर्हि किं स्विन्नु तद्यमस्य कर्तव्यमस्ति तथा तब सौम्यं वर्तते तथा वोयं वा। किं तत् । यन्मयाऽय कार्य करिष्यति तत्किं स्विद्यमस्य कर्तव्यमस्ति तत्साधु ब्रूहि ॥ ५॥ .
इति बालदशानुरूपं महत्त्वापेक्षिणस्तस्य वचनं श्रुत्वा विवेकोत्पादनाय किंचिद्वैराग्यपूर्वकं वचनं पितोवाच- ..

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102