Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 39
________________ अर्थप्रकाशसमेता - ४० " ". तत्रापि दहरं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यमिति तदाकाशे सोऽग्निरंशत्वेन वर्ततेऽतस्तत्रैव तज्ज्ञानं तन्मयत्वेनावस्थानरूपोपासना च । अत एवोच्यते तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता । नीलतोयदमध्यस्था विद्युल्लेखेव मास्वरा । नीवारशूकवत्तन्वी पीता मास्वत्यणूपमा । तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः । स ब्रह्म स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट् । इति । यस्याग्नरेवंविधा चिन्मयी शिखा स एवाग्निर्हृत्पुण्डरीकगुहायां प्रतिष्ठितो विज्ञेयः । किंविधा सा शिखा । अणीयोर्ध्वोर्ध्वभागेऽणीयस्यणूपमा । ' तत्परं ब्रह्म यावत्तावचिन्मयं न तत्परिच्छिन्नं तत्रात एवोच्यते ' प्रज्ञानं ब्रह्म 'विज्ञानमानन्दं ब्रह्म '' सत्यं ज्ञानमनन्तं ब्रह्म ' इति । सर्वमपि परं ब्रह्म चिन्मयमेवास्ति तेन मूलभागे व्यापिका सा शिखा सैव गुणमूलं गुणप्रधानत्वेनाग्रे गुणपरिच्छिन्ना जाता ततो देहयोगेन देहपरिच्छिन्ना ततः करणयोगेन तत्सूक्ष्मद्वारपरिच्छिन्ना वर्ततेऽणीयोर्ध्वा । नीलतोयदमध्यस्था विद्युल्लेखेव मास्वरा । यथा सजल मेघपटलस्थाविद्युल्लेखा भास्वरा भास्वती स्वप्रकाशत्वात्तेन मार्गादिप्रदर्शनेन प्रयोजनसिद्धिकरी तथेयमपि प्रज्ञानशिखा स्वप्रकाशाऽप्यज्ञा नान्यथाज्ञानजड देहावृताऽपि प्रपञ्चे तद्वद्विषयानुभवकरी व्यवहारोपयुक्ता । तथा प्रयोजनक यपि न तावत्यतिसूक्ष्मा । कथम्, नीवारशूकवत्तन्वी यथा नीवारशूकमाश्रये स्तम्बे तावदेव वर्ततेऽग्रभागेऽणूपमं तथेयमप्युक्तप्रकारेण प्रपचेऽतिसूक्ष्मत्वेन वर्तमाना । पीता प्रपञ्चप्रकाशत्वेन रजः प्रधानत्वात् । भास्वती स्वप्रकाशाऽणूपमाऽतिसूक्ष्मपिपीलिकाद्यवयवप्रकाशनेन तावती भवति । एवंविधायास्तस्याः शिखाया मध्ये परमात्मा व्यस्थितः । यत्परमा • मतत्त्वं तदधिष्ठानसत्त्या तस्यां य आत्मभावस्तदेव तस्मात्स तच्छि खायां वर्ततेऽत एव तदुपाधिरित्युच्यते । स परमात्मा ब्रह्म ब्रह्मा तद्रजः प्रधानत्वात् । स शिवस्तमः प्रधानत्वात् । स हरिस्तमःपूर्वक सत्त्वप्रधानत्वात् । सेन्द्रः स इन्द्रस्तदुपलक्षिताः सर्वेऽपि हिरण्यगर्भाशा देवाः स एव तेषां तदवयवत्त्वात् । एवं सर्वमपि तच्छिखान्तर्वर्त्य - चास्ति । तेन स केवलस्तन्मय एव स्यादतः सोऽक्षरः परमः परमं सर्वोत्कृष्टमक्षरं स एवास्ति तस्य तदुपाधित्वात् । न मुख्यं रूपमुपाधिभवति परं ब्रह्मैव ज्ञेयम् । अतः स स्वराट् तेन रूपेण स्वसत्तया स्वय-. मेव राजते स्वराट् । तस्माद्यत्परं ब्रह्म तदेव मायोपाधित्वादीशस्वरूपं

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102