Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 55
________________ ५६ अर्थप्रकाशसमेतापाप्मानं तरति नैनं पामा तपति सर्व पाप्मानं तपति विपापो विजरो विजिघत्सोऽपिपासो ब्राह्मणो भवति' इत्यादिना ।हे नचिकेतो धीरस्त्वं धृत्या मयोपदिष्टवाक्यधारणयाऽऽत्मन्यात्मत्वेनापरोक्षतयाऽनुभय नात्य. साक्षीनातिसृष्टवानहमिव नातिमुक्तवान्सर्वदा तदनुसंधानशील एव भविष्यसीति भावः ॥ ११॥ तद्विज्ञानेन किं स्यात्तदाह तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गहरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोको जहाति ॥ १२॥ तमात्मानं दुर्दश द्रष्टुमशक्यं, किंनिमित्तमिति चेत्, गूढं गुप्तं सर्वान्तरत्वेन वर्तमानत्वात् । तदेवोच्यते ' यश्चक्षुषि तिष्ठश्चक्षुषोऽन्तरो यं चक्षुर्न वेद यस्य चक्षुः शरीरं यश्चक्षुषोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः' इति । यदृष्टिपथे तिष्ठति तच्चक्षुषा ग्राह्यं स्यात् । यश्चक्षुषि तिष्ठंचक्षुषोऽन्तरः स कथं चक्षुषा वेद्यो भवेत् । चक्षुरादीनीन्द्रियाणि तु(?) 'पराश्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्यति नान्तरात्मन् ' इत्युक्तत्वात्कथं तैर्याह्यः स्यात् । तथाऽन्तर्वतिना मनसाऽप्यगृह्यः। उक्तं च 'यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं यो मनसोऽन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः' इति। एवं यन्मनसोऽप्यन्तरं तत्सत्तारूपं तत्तेन कथं ज्ञेयं स्यात् । तदन्तरङ्गा बुद्धिस्तयाऽप्यग्राह्यः । तदन्तरजात्वात् । स्मृतं च 'यो बुद्धेः परतस्तु सः' यत्सर्वातीतं साक्षिरूपं प्रज्ञानं तस्याप्यन्तरत्वेनोच्यते 'यः प्रज्ञाने तिष्ठप्रज्ञानादन्तरो ये प्रज्ञानं न वेद यस्य प्रज्ञानं शरीरं यः प्रज्ञानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः' इति । एवं तेनाप्यग्राह्यः । अथ प्रज्ञानाऽप्यग्राह्यः। तथा श्रुतिः ‘य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्याऽऽत्मा शरीरं य आत्मनोऽन्तरो यमयति स त आत्माsन्तर्याम्यमृतः' इति । यज्ज्ञातृज्ञानवेद्यं तद्विलक्षणमेवातो न तदात्मा मवेत् ' अविज्ञातो विज्ञाता' इत्यानातत्वात् । आत्मविज्ञाने ज्ञानेऽवलम्बितेऽनवस्थाप्रसक्तिरेव । इत्येवं सर्वान्तरङ्गत्वेन गूढो य आत्मा स चक्षुरादिभिर्दुर्दर्श एव । इति चक्षुराद्यन्तरत्वेनावस्थातुं किं निमितम् । अनुप्रविष्टं तदेवाऽऽह श्रुतिः स एष इह प्रविष्ट आनखाग्रेभ्यो

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102