Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 59
________________ अर्थप्रकाशसमेतातपांसि सर्वे तपस्विनो यत्पदं प्राप्यत्वेन वदन्ति । यत्पदमिच्छन्तो ब्रह्मचर्यं ब्रह्म वेदाख्यं चर्यतेऽभ्यस्यतेऽत्र ब्रह्मचर्यं तच्चरन्ति । ब्रह्मचर्यमाहात्म्यं छान्दोग्ये विस्तरेणाभिहितमस्ति । तत्पदं ते तुभ्यं संग्रहेण संक्षेपेण ब्रवीमि । किंतत् । ओमिति ॥१५॥ एतद्धैवाक्षरं ब्रह्म एतद्धैवाक्षरं परम् । एतद्धैवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६ ॥ एतद्ध वा एतदेवाक्षरमोंकाराख्यं ब्रह्म वेदचतुष्टयरूपम् । एतद्धवाक्षरं परं सर्वातीतं सर्वोत्कृष्टत्वात् । एतद्वैवाक्षरं न क्षरति तदक्षरमविनाशि वस्त्वात्मरूपम् । तस्मादेतद्धवाक्षरं ज्ञात्वा यः पुमान्यदिच्छतीहामुत्र च तस्य तत्तेनानायासेनैव प्राप्तं भवति । कथमेतदक्षरं वेदचतुष्टयरूपं परं ब्रह्म च कथं चैतज्ज्ञातवत एव सर्वं भवतीति चेत् । प्रणवः स सार्धमात्रात्रयस्तत्राकार उकारो मकार इति तिम्रो मात्रा योऽन्ते ध्वनिः साऽर्धमात्रा । तत्र यो ध्वनिरन्त्यः स एव सर्ववेदाकारेण संभवति विना तेन कुतः शब्दोत्पत्तिस्तदभावे कुतो वेदोत्पत्तिः । मात्रात्रयं तु वेदत्रयसारभूतम् । उक्तं चर्बाह्मणे 'प्रजापतिरकामयत प्रजायेय भूयान्त्स्यामिति स तपोऽतप्यत स तपस्तप्त्वेमाल्लोकानसृजत पृथिवीमन्तरिक्ष दिवं ताल्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रीणि ज्योतीष्यजायन्ताग्निरेव पृथिव्या अजायत वायुरन्तरिक्षादादित्यो दिवस्तानि ज्योतीष्यभ्यतपतेभ्योऽभितप्तेभ्यस्त्रयो वेदा अजायन्त ऋग्वेद एवाग्रजायत यजुर्वेदो वायोः सामवेद आदित्यात्तान्वेदानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रीणि शुक्राण्यजायन्त भूरित्येव ऋग्वेदादजायत भुव इति यजुर्वेदात्स्वरिति सामवेदात्तानि शुक्राण्यभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयो वर्णा अजायन्ताकार उकारोमकार इति तानेकधा सममरत्तदेतदोम्' इति । तस्मात्सर्वमन्त्रमयो व्यापकश्च सोऽतः सर्वमन्त्रारम्भे प्रथमं स उच्चार्यते । अथ कथं परं ब्रह्म । अकारेण परमात्मनः सकार्य रजो वाच्यं किं तत् । विराटपरमात्मनः स्थूलं शरीरं तवावस्थोत्पत्तिरभिमानी ब्रह्मेत्येतद्रजाकार्यमकारवाच्यम्। तथा हिरण्यगर्भशरीरं सूक्ष्म पञ्चविंशतिदेवतात्मकं तत्रावस्थास्थितिरुमयाभिमानी विष्णुरित्येतत्तमःपूर्वकसत्त्वस्य कार्यमुकारवाच्यं ज्ञेयम् । माया शरीरं प्रलयोऽवस्था रुद्रोऽभिमानीत्येतत्तमःकार्य मकार• वाच्यं महामाया शरीरं सर्वज्ञत्वमवस्था परमात्माभिमानीत्येतच्छुद्धस

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102