Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 66
________________ कठोपनिषत् । योग्यो भवति । सदाचार्यप्रसादादेव गम्यो न परोक्षवादेनापरविद्यारूपेण ॥ २१ ॥ पुन: अशरीर शरीरेष्वनवस्थेष्ववस्थितम् । महान्तं विशुमात्मानं मत्वा धीरो न शोचति ॥२२॥ शरीरेणु स्थूलादिषु नानाविधेषु तदभिमानित्वेन वर्तमानमप्यशरीर तदावरणरहितं तज्ज्ञानशून्यत्वात् । तेषु शरीरेष्वनवस्थेष्वनवस्थितेष्वि. तस्ततो विहरत्स्वपि नानाविधकर्मयोगेणेहामुत्र च भ्रमणशीलेष्वप्यव. स्थितं यथावदेव वर्तमानमचञ्चलमनन्तत्वात् । ननु तदा शरीराबलम्बः कस्य, प्रत्यक्चेतन्यस्य । किं तत् , पूर्णमेवाविद्योपाधियोगात्मत्यक्त्वं प्राप्तं तत् । तदा कथं तदशरीरमित्युच्यते। सत्यं शरीराध्यविद्याकृतानि, सा विवर्तरूपा तदा तत्कार्याणि तान्यपि तथा विवर्तस्य भानं न सत्याधिष्ठानदृष्टयाऽतः सत्ये तदधिष्ठाने पूर्णचैतन्ये तेषां भानमपि नास्ति तदा कुतस्तैः शरीरित्वं तस्य तस्मादशरीरं तत्तेनाचञ्चलम् । अविद्यागुणदृष्ट्या शरीरेऽववस्थित इति दृश्यते तथाऽपि महान्तमुक्तप्रकारेण महतो महीयांसम् । उच्यते च 'तद्दूरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ।। इति । विभुं सर्वमात्मन्यवस्थापयितुं समर्थं ३ सत्तारूपत्वात् । एवंविधमात्मानं धीरो धीमान्विवेकी मत्वाऽऽत्मन्यात्मत्वेनोक्तप्रकारेण बुद्ध्वा न शोचति सांसारिकस्त्रीपुत्रपदार्थवियोगे शोकं करोति । सर्वत्रैकस्यैवाऽऽत्मनस्तदन्यस्य तु सर्वस्य मिथ्यात्वस्य' दर्शनात् ॥ २२॥ अथ किं तद्विज्ञाने मुख्य साधनं तदाह नायमात्मा प्रवचनेन लग्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लत्यस्तस्यैष आत्मा विवृणुते तनू५. स्वाम् ॥ २३ ॥ अयमेतावन्तं कालमभिहित आत्मा न प्रवचनेन वेदशास्त्रादीनां प्रपठनेन लभ्यो लन्धुं शक्यः । न मेधया तजनितप्रज्ञाविशेषेणापि लभ्यः । तथा न बहुना श्रुतेन पुराणादीनां श्रवणेनापि लभ्यः । अत एवोच्यते नानुध्यायादहून्छब्दान्वाचो विग्लापनं हि तत् । तमेवैकं

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102