Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 65
________________ अर्थप्रकाशसमेतासत्त्वप्रधानो विवेकवान् । तमुक्तमकतुमनवसायं निर्विकल्पं निर्गुणत्वादेवमात्मानं धातुर्दधाति सर्वमात्मनि धाता सर्वोपादानं परमात्मा तस्य प्रसादादनेकजन्माचरितकर्मोपासनाभ्यां प्राप्तप्रसन्नत्वात्पश्यति संप्राप्तसदाचार्यमुखादवाप्तपरविद्याप्रकाशितव्यतिरेकवृत्त्याऽऽत्मन्यात्मत्वेन साक्षा. करोति । तत आत्मनो महिमानं महत्त्वमविद्योपाधियोगात्प्रत्यगात्मत्वेन संप्राप्तपरिच्छिन्नत्वस्य तद्गुणकर्मवशत्वेन सांसारिकत्वस्य चापगमा. त्पूर्णत्वं निजानन्दसंतृप्तत्वं च पश्यति ॥ २० ॥ पुनः कथं स आत्मा आसीनो दूरं ब्रजति शयानो याति सर्वतः । कस्तं मतामतं देवं मदन्यो ज्ञातुमर्हति ॥ २१ ॥ आसीनो ज्ञानकर्मकरणव्यापारपरिवर्जनेन बाह्यप्रपञ्नं बहिस्त्यक्त्वा तत्संबन्धि प्रज्ञानं ततः प्रत्यावर्त्य हृदय गुहायां नीत्वा विमले चिदाकाशे तत्प्रज्ञानावलम्बं परित्यज्याऽऽत्मन्यात्मत्वेन निर्विकारनिर्विकल्पतया नि. जानन्दमोक्तृत्वेन या निद्रा तां परित्यज्य तत्स्वगतं निर्विकल्पमात्मप्रज्ञानमवलम्ब्य साक्षित्वयोगेनोपविशन्सन्दूरं व्रजति गुणावलम्बनेन देहादियोगात्संसारनिष्ठत्वेन तत्सङ्गमुक्तत्वादूरं गच्छति । शयानस्तत्रोक्त. प्रकारेण सर्वावलम्बपरित्यागेन निर्विकल्पत्वेनाऽऽत्मनि स्वपन्सन्सर्वतः सर्वत्र याति गच्छति तस्मिन् पूर्णेऽनन्ते तन्मयत्वेनावस्थितस्तादृगेव सर्वगतो भवति । कः पुमांस्तं देवं द्योतमानं स्वप्रकाशं मतामतं मतं चामतं च मतामतं मत एव चेत्तदा ज्ञानज्ञेयज्ञातृत्वभावशून्यस्तस्मान्न मतः । अतोऽमतश्चेत्तॉपरोक्षत्वेनानुभूयमानस्तेन नामतोऽपि । तत्र यज्ज्ञानं तदज्ञानमज्ञानं ज्ञानं तस्माज्ज्ञानाज्ञानमुक्तः । सोऽनुभवस्तस्य करणमकरणं प्रज्ञानावलम्बयोगात्। अतः करणाकरणा. भावशून्यः । मदामदमिति पाठान्तरे तु मदो हर्ष आनन्द एव । अमदोऽहषों निरानन्दः। एवमुमयस्वरूपः कथं, स आत्मा सच्चिदान. न्दरूपोऽपि यथा प्रज्ञाननिष्ठत्वेन ज्ञातृत्वयोगादचिन्मयः । एवमानन्द. निष्ठत्वेन भोक्तृत्वयोगानिरानन्दरूपः । तदसङ्गत्वेन सदवगमकत्वेनाऽऽ. नन्दमयोऽपि । तेन मदामदमित्युच्यते । स गुरुगम्यो नान्येन यत्नेन साध्योऽतो मदन्यो मद्गुरुरूपादन्यो मां हित्वा ज्ञातुमपरोक्षत्वेनार्हति

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102