Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 64
________________ कठोपनिषत् । नायमात्मा हन्ति हननं तत्प्रकृतिगुणैरेवाऽऽत्मा तु नित्यं तदसङ्ग एव न च हन्यते हतत्वं देहस्यैव ॥ १९ ॥ यस्मादेवं तस्मात्पुनः कथं स: अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः । तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ॥ २० ॥ अयमात्मा शुद्धोऽणोरणीयान् । यस्मादन्यत्सूक्ष्मं ततोऽप्ययं सूक्ष्म इत्यभिप्रायेणात्राणुशब्देन परमाणुर्विज्ञेयस्तस्मादपि सूक्ष्मतरः । अत एवोच्यते न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्' इति । तेन स्थानपरिच्छिन्नो मवेदतो महतो महीयान् । यस्मादन्यन्महत्ततोऽपि महीयान् । सावरणं ब्रह्माण्डमाकाशे वर्तते सोऽपि निजकारणे दशगुणाधिकेऽहंकारे तेन ततस्तन्महत्ततोऽपि तथा तत्कारणमव्यक्तं तदप्यत्र परिच्छिन्नं तच्छबलं ब्रह्म सर्वापेक्षया महत्ततोऽपि महीयान्स आत्माऽनन्तो यत्रेश्वरत्वमेकदेश्युल्लोलप्रायम् । नन्वाकाशान्महानप्यहं. कारः परिच्छिन्नस्तथा महत्तत्त्वं ततो महदप्येवमेवमव्यक्तं शबलमपि तथा ततो महीयानात्मा परिच्छिन्न एव किं न । न यदन्यत्तस्माद्भावरूपं वाऽभा. वरूपं वस्तु न किंचिदस्त्युमयविलक्षणपदार्थाभावात् तदेव सर्वगतं महतो महीयानित्युक्तत्वात्ततोऽपि महीयान्स तेनानन्त एव सः। पुनः कथं सः । अस्य जन्तोर्जायतेऽजसं जन्तुर्जननशीलस्तस्य प्राणिनो गुहायां हृदयगु. हायां निहितो यतस्तत्रैव तज्ज्ञानमस्ति । ननु महतो महीयान्स कथं परिच्छिन्नायां हृदयगुहायां प्रतिष्ठितो विज्ञेयः। यथा परिच्छिन्नेष्वपि घटमठोपाधिषु महानप्याकाशः प्रतिष्ठितो दृश्यते तथा महानप्यात्मा परिच्छिनाविद्योपाधियोगात्तथात्वेन वर्तमानः स हृदयगुहायां प्रतिष्ठितो विज्ञेयः। ननु च घटमठोपाधिष्वाकाश आवृतत्वेन परिच्छिन्न एव दृश्यते तथाssस्मनोऽप्यनुभवकाले परिच्छिन्नत्वेनैवानुभवो भव्यो न पूर्णत्वेन । सत्य, तत्र यथाऽऽकाशस्तथैवोपाधयो घटादिरूपाः सत्याः । नात्र तथाऽविद्योपाधयोऽनिर्वचनीयत्वेन विवर्तरूपास्तस्य तु मानं नाधिष्ठानदृष्ट्या संमवति तस्मान्निरावृतमनन्तं तच्छद्धात्मरूपमनुभूयत उच्यते च 'अतोऽ. न्यदार्तम् ' इति । एवमात्मा न । तस्यां हृदयगुहायां वीतशोको विगतः शोकः सांसारिको हानिसंभवो यस्य स विगताहंममत्वात् । नित्यं

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102