Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
कठोपनिषत् |
एतदालम्बनं ज्ञात्वैवं कर्तव्यमिति सदाचार्य मुखतो विज्ञाय तथाऽवलम्ब्य तन्निष्ठतया दशां संसाध्य ब्रह्मलोके परब्रह्मलोक इव सर्वाधिष्ठानत्वाब्रह्मलोकस्तस्मिन्महीयते महांस्तद्रूपत्वेन भवति । साधकस्तु प्रारब्धकक्षयान्मृतश्चेत्तार्ह बह्मलोके ब्रह्मणो विरचेर्लोके सत्याख्ये महीयते पूज्यो भवति ॥ १७ ॥
स ज्ञानी शुद्धस्वरूपेण कथमस्ति तदाह
न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ १८ ॥
६३
1
न जायते जननं न प्राप्नोति । म्रियते वा तथा न मरणमपि । ननु जन्ममरणे न केवलस्य देहस्यं नाप्यात्मनः केवलस्य । जीवयोगेन देहस्य मातृगर्भे वर्तमानत्वम् । तेन जननमरणे संभवतः । यथा देहयोगेनाऽऽत्मनस्तत्संबन्धो बालत्वादिभावदर्शनात् । एवं सति कथं न जायते म्रियते वेत्युच्यते | सत्यम् । तज्जननमरणे न वस्तुत आत्मन: । औपाधिके स्तः । सोऽनिर्वचनीयत्वेन विवर्तरूपः । विवर्तस्त्वन्यथामासमा - त्रोतात्त्विकः कः । तत्कृते जन्ममरणे अपि तथा । अतोऽधिष्ठानदृष्ट्या न तद्भानमपि तदद्वितीयं यथावदेव । तेन न जायते म्रियते वेत्युक्तम् । पुनः कथं स आत्मा विपश्चित्यज्ञानवानविपरितचैतन्यः । नन्वेवं कथं स्याद्यच्छुद्धं परं ब्रह्म तदेव स्वगतचित्प्रकृतियोगेन सत्त्वगुणतः शबलमीश्वररूपं संभूय ततो गुणत्रययोगतोऽव्यक्तादिरूपेण सवि कल्पप्रपञ्चनिष्ठं भवति । तदा कथं तन्नित्यज्ञानानन्दमयम् । यदुपाध्यवलम्बनेन सविकल्पत्वं तत्प्रत्यक्परम चैतन्ययोरेव न पूर्णे तत्सर्वदा निरुपाधिकमेव । तत्र कुत उपाध्यवलम्बस्त्यागश्च तत्कृतशबलत्वादिभावा अपि । तन्नित्यं चिदानन्दमयमेव तथाऽपि न तत्र सदवगमकत्वं चिदाश्रयत्वमानन्द भोक्तृत्वं च । निरुपाधिकत्वेन पुरुषत्वाभावात् । न तत्रोपाधेर्भानमपि कुतस्तत्कार्यस्य । जन्ममरणाभावेऽप्यग्रे कुतश्चित्संभूतं स्यात् । अत आह नायं कुतश्चिदिति । कदाऽपि कुतश्चित्कस्मादपि कारणान्न संबभूव संभूतः । किंच न कश्चित्कोऽप्यस्मान्न संबभूव । नन्वेवं कथमुच्येत सर्वकारणत्वमस्यैवोच्यमानत्वात् । कथं ' यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषास्केशलोमानि तथाऽक्षरात्संभवतीह विश्वम्' इति, यथा सुदीप्तात्पाव काद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाऽक्षर द्विविधाः सोम्य

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102