Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
६४
अर्थप्रकाशसमेता
भावाः प्रजायन्ते' इत्यादिना । एवं सति न बभूव कश्चिदिति कथमुच्यते । सत्यं, तथाऽपि न शुद्धस्याऽऽत्मनः कस्यचित्कारणत्वं न किमपि कायं तस्य । चेदयं प्रपश्चो ब्रह्मकायं तदा परिणामो वा विकारो भ्रम आरोपो वा संभवति न परिणामः संभवेत् । स पूर्वरूपविपर्यासादेव न पुनस्तस्य पूर्वरूपत्वं तदाऽधुना न कस्यापि तत्प्राप्तिः स्यात् । सा तूच्यते 'ब्रह्मविदाप्नोति परम्' 'ब्रह्मविद्ब्रह्मैव भवति' तस्मात्तन्निजेन रूपेण यथावदेवास्ति । न तथा विकारोऽपि स कारणानुरूप एवावगम्यते । नात्र तत् । विना निमित्तेन न तत्संभवति नाद्वितीये तद्वक्तुमर्हम् । न भ्रमोऽपि, कथं तस्य भ्रमबाध्यत्वं स्यात् । तस्य सद्वस्तुनः किं भ्रमजनकम् । अतोऽन्यदार्तम्' इत्युक्तत्वात्सर्वमव. स्तुभूतमेवास्ति नाऽऽरोपोऽपि स आकारसहशत्वादेव संभवति । किमनेन सममन्यत् । तथा कथमयमनुपमेयः । न प्रतिबिम्बरूपमपि कार्यम् । पूणे सर्वगतेऽद्वितीये स वादो वक्तुं नोपपन्नः । तदन्यत्सर्वमन्यथाभास. मानमनिर्वचनीयत्वाद्विवर्तरूपमेवास्ति न विवर्तस्य कार्यवत्कार्यत्वं संभवति नाधिष्ठानस्याकारणत्वम् । अत उक्तं 'न बमूव कश्चित्' इति। ननु तदोक्तवाक्यैः कथं कार्यकारणभावावमिहिती। सत्यं, तो सोपाधिक न पूर्णे । ननु तदेवोपाधियोगात्सोपाधि शाति विवर्तरूपस्य तस्य नाधिष्ठानदृष्ट्या मानं तदेकविधमेव तत् । अनि 'एकथैवानुद्रष्टव्यमेतदप्रमेयं ध्रुवम् ' इति । सोपाधिके वर्तमानोऽपि तदृष्टयैव स माति न वस्तुतस्तदूपे । अतोऽयमात्मा निजेन रूपेणाजः। सर्वान्तर्गतत्वेन वर्तमानोऽपि न जायते। तथा नित्यो विनाशवर्जितः। न म्रियते च तेन शाश्वतः । शश्वद्यथावदेव वर्तमानः । तथा स्थित्युद्भवलयातीत. त्वेन पुराणश्चिरन्तनश्च । बहिध्या सर्वशरीरे वर्तमानोऽपि शरीरे हन्यामानेऽपि न हन्यते सूक्ष्मत्वात् । यथा घटमठोपाधिभङ्गेऽपि नाऽऽकाशस्य तेन नाशस्तद्यथावदेव ॥१८॥ एवं सति
हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥ हन्ता हन्तृत्वाभिमानवांश्चेद्धन्तुं मन्यते तेन हतश्चेदात्मानं हतं मन्यते तयपि ता उभौ न विजानीतो यथार्थात्मस्वरूपज्ञानामावात् ।

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102